Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 237
________________ ૧૯૫ शङ्कनीयं ‘न श्वेतः' इत्याद्यध्यक्षस्योद्भूततया श्वेताद्यभावविषयकत्वोपगमात्, तादृशशब्दस्थले च भावसत्यताग्राहकव्युत्पत्तिमहिम्ना श्वेतादिपदानामुद्भूतश्वेतादिपरत्वग्रहेण दोषाभावादिति दिग् ॥ अस्मान्नयादेकान्तनित्यचेतनाचेतनवस्तुद्वयप्रतिपादकं साङ्ख्यदर्शनमुत्पन्नम् । यद् वादी जं काविलं दरिसणं, एवं दव्वट्ठियस्स वत्तव्वं ॥ सन्म. ३-४८॥ द्रव्यार्थिकपदमत्र व्यवहारलक्षणाशुद्धद्रव्यार्थिकपरं द्रष्टव्यं शुद्धद्रव्यार्थिकप्रकृतेः सङ्ग्रहनयरूपाया वेदान्तदर्शनोत्पत्तिमूलताया उक्तत्वात् ॥ ऋजुसूत्रनयनिरूपणम् अनेकान्तव्यवस्था÷ ऋजु - अवक्रं श्रुतं - ज्ञानमस्य ऋञ्जुश्रुतः । सूत्रः । यद् भाष्यकृद् यद्वा ऋतु-अवक्रं वस्तु सूत्रयतीति उज्जुं उज्जुं सुयं नाणं उज्जुयमस्स सोयमुज्जुसुओ । सुत्तयइ वा जमुज्जुं वत्थं तेणुज्जुसुत्तोत्ति ॥ विशे. २२२२ ॥ ऋजुत्वं चैतदभ्युपगतवस्तुनोऽवर्तमानपरकीयनिषेधेन प्रत्युत्पन्नत्वम् । अतीतमनागतं परकीयं च वस्त्वेतन्मते वक्रं, प्रयोजनाकर्तृत्वेन परधनवत् तस्यासत्त्वात्, स्वार्थक्रियाकारित्वस्यैव स्वसत्तालक्षणत्वात् । अत एव व्यवहारनयवादिनं प्रति अयमेवं पर्यनुयुङ्क्ते - 'यदि व्यवहारानुपयोगादनुपलम्भाच्च सङ्ग्रहनयसम्मतं सामान्यं त्वं नाभ्युपगच्छसि तदा तत एव हेतुद्वयात् गतमेष्यत् परकीयं च वस्तु माभ्युपगम । न हि तैः कश्चिद् व्यवहारः क्रियते उपलब्धिविषयीभूयते वा । वासनाविशेषजनितो व्यवहारस्तु सामान्येऽप्यतिप्रसज्यत इति यत् स्वकीयं साम्प्रतकालीनं च तद्वस्तु । लिङ्गसङ्ख्यादिभेदेऽपि 'तटस्तटीतटम्' इत्यादौ 'गुरुर्गुरवः' 'आपो जलम्' 'दाराः कलत्रं' इत्यादौ च विपरिणतनानापर्यायशब्दवाच्यं निक्षेपचतुष्टयाक्रान्तमपि एकमेव स्वीकुरुते ऋजुसूत्रनयः। न तु शब्दनयवत् भावरूपैकनिक्षेपाक्रान्तं लिड्ग-सङ्ख्याभिन्नपर्यायशब्दावाच्यं च । तदाह भाष्यकृत् तम्हाणिययं संपइकालीणं लिंगवयणभिन्नपि । नामादिभेदे विहियं पडिवज्जइ वत्थुमुज्जुसुत्तो ति ॥२२२३ विशे. ॥ अस्मान्नयात् परपर्यायासंस्पर्शि एकपर्याये वचनं विच्छिन्दद् बौद्धदर्शनं प्रवृत्तम् ॥ शब्दनयनिरूपणम् : 'शप् आक्रोशे' शपं-आह्वानमिति शब्दः । शपतिं - आह्वयतीति वा शब्दः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280