Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 235
________________ अनेकान्तव्यवस्था प्रतिक्षेपेणैव द्रव्यपर्यायग्राहिणो द्रव्यार्थिकत्व - पर्यायार्थिकत्वे निर्युक्तिभाष्यादौ । तदेवं द्रव्यार्थिकः पर्यायं प्रतिक्षिपति पर्यायार्थिकस्तु द्रव्यं, इति द्रव्यांशप्रतिक्षेपान्नैगमो द्रव्यार्थिक इति व्यवस्थितम् । न च तथा तज्जातीयेन पर्यायाप्रतिक्षेपात् पर्यायार्थिकत्वमपि स्यादिति वाच्यं यज्जात्यवच्छेदेन द्रव्याप्रतिक्षेपित्वं तज्जातीयस्य तन्नयत्वं इत्येवं परिभाषणात् । वस्तुतः क्षणिकत्वादिविशेषणशुद्धपर्यायं नैगमो नाभ्युपगच्छत्येव, किञ्चित्कालस्थायिअशुद्धतदभ्युपगमस्तु सत्तामहासामान्यरूपद्रव्यांशस्य घटादिसत्तारूपविशेष प्रस्तारमूलतया शुद्धद्रव्याभ्युपगम एव पर्यवस्यतीति न पर्यायार्थिकत्वं तस्य । अत एव सामान्यविशेषविषयभेदेन सङ्ग्रहव्यवहारयोरेवान्तर्भावेन शुद्धाशुद्धद्रव्यास्तिकायोऽयमिष्यते इति दव्वठ्ठियनयपयडी सुद्धा संगहपख्त्रणाविसओ । पडिस्ख्वे पुण वयणत्थणिच्छओ तस्स ववहारो ॥१-४॥ इति सन्मतिगाथायां पृथड्नोदाहृतः । अत्र नैगमो न पृथग् जगृहे सङ्ग्रहव्यवहारविषयातिरिक्ततद्विषयासिद्धेरिति । ष पृथड्नैगमनयो विद्यते ते प्रतिपत्तृभेदान्नाना तदभिप्रायं वर्णयन्ति । यतः केचिदाहुः 'पुरुष एवेदं सर्वं' (पुरुषसूक्त) इत्यादि । यदाश्रित्योक्तम् - Jain Education International ૧૯૩ ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ गीता १५-१ ॥ पुरुषोऽप्येकत्वनानात्वभेदात् कैश्चिदभ्युपगतो द्वेधा, नानात्वेऽपि तस्य कर्तृत्वाकर्तृत्वभेदः परैराश्रितः, कर्तृत्वेऽपि सर्वगतेतरभेदः, असर्वगतत्वेऽपि शरीरव्याप्यवयापिभ्यां भेदः, व्यापित्वेऽपि मूर्तेतरविकल्पाद् भेद् एव । अपरैस्तु प्रधानकारणकं जगदभ्युपगतं, तत्रापि कैश्चिद् सेश्वरनिरीश्वरभेदोऽभ्युपगतः । अन्यैस्तु परमाणुप्रभवमभ्युपगतं जगद् तत्रापि सेश्वरनिरीश्वरभेदाद् भेदोऽभ्युपगत एव । सेश्वरपक्षेऽपि स्वकृतकर्मसापेक्षत्वानपेक्षत्वाभ्यां तदवस्थ एव भेदाभ्युपगमः । कैश्चित् स्वभावकालयदृच्छादिवादाः समाश्रिताः, तेष्वपि सापेक्षत्वानपेक्षत्वाभ्यां भेदव्यवस्थाभ्युपगतैव । तथा कारणं नित्यं कार्यमनित्यं इत्यपि द्वैतं कैश्चिदभ्युपगतम् । तत्रापि कार्यं स्वरूपं नियमेन त्यजति न वेत्ययमपि भेदाभ्युपगमः । एवं मूतैरेव मूर्तमारभ्यते, अमूर्तैरमूर्तं मूर्तैरमूर्तं अमूर्तैर्मूर्तम् इत्यनेकधा निगमार्थः सन्मतिवृत्तौ व्यवस्थितः । एतन्नयमालम्ब्य वैशेषिकदर्शनं प्रवृत्तम् । एवं नैयायिकदर्शनमपि, प्रायः समानत्वाद् द्वयोरिति । सङ्ग्रहनयनिस्पणम् : सङ्ग्रहणं = सामान्यरूपतया सर्ववस्तूनामाक्रोडनं सङ्ग्रहः । सङ्गृणाति सामान्यरूपतया वा सर्वमिति वा सङ्ग्रहः । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280