________________
अनेकान्तव्यवस्था
प्रतिक्षेपेणैव द्रव्यपर्यायग्राहिणो द्रव्यार्थिकत्व - पर्यायार्थिकत्वे निर्युक्तिभाष्यादौ ।
तदेवं द्रव्यार्थिकः पर्यायं प्रतिक्षिपति पर्यायार्थिकस्तु द्रव्यं, इति द्रव्यांशप्रतिक्षेपान्नैगमो द्रव्यार्थिक इति व्यवस्थितम् । न च तथा तज्जातीयेन पर्यायाप्रतिक्षेपात् पर्यायार्थिकत्वमपि स्यादिति वाच्यं यज्जात्यवच्छेदेन द्रव्याप्रतिक्षेपित्वं तज्जातीयस्य तन्नयत्वं इत्येवं परिभाषणात् ।
वस्तुतः क्षणिकत्वादिविशेषणशुद्धपर्यायं नैगमो नाभ्युपगच्छत्येव, किञ्चित्कालस्थायिअशुद्धतदभ्युपगमस्तु सत्तामहासामान्यरूपद्रव्यांशस्य घटादिसत्तारूपविशेष प्रस्तारमूलतया शुद्धद्रव्याभ्युपगम एव पर्यवस्यतीति न पर्यायार्थिकत्वं तस्य । अत एव सामान्यविशेषविषयभेदेन सङ्ग्रहव्यवहारयोरेवान्तर्भावेन शुद्धाशुद्धद्रव्यास्तिकायोऽयमिष्यते इति
दव्वठ्ठियनयपयडी सुद्धा संगहपख्त्रणाविसओ ।
पडिस्ख्वे पुण वयणत्थणिच्छओ तस्स ववहारो ॥१-४॥
इति सन्मतिगाथायां पृथड्नोदाहृतः ।
अत्र नैगमो न पृथग् जगृहे सङ्ग्रहव्यवहारविषयातिरिक्ततद्विषयासिद्धेरिति । ष पृथड्नैगमनयो विद्यते ते प्रतिपत्तृभेदान्नाना तदभिप्रायं वर्णयन्ति । यतः केचिदाहुः 'पुरुष एवेदं सर्वं' (पुरुषसूक्त) इत्यादि । यदाश्रित्योक्तम् -
Jain Education International
૧૯૩
ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ गीता १५-१ ॥
पुरुषोऽप्येकत्वनानात्वभेदात् कैश्चिदभ्युपगतो द्वेधा, नानात्वेऽपि तस्य कर्तृत्वाकर्तृत्वभेदः परैराश्रितः, कर्तृत्वेऽपि सर्वगतेतरभेदः, असर्वगतत्वेऽपि शरीरव्याप्यवयापिभ्यां भेदः, व्यापित्वेऽपि मूर्तेतरविकल्पाद् भेद् एव । अपरैस्तु प्रधानकारणकं जगदभ्युपगतं, तत्रापि कैश्चिद् सेश्वरनिरीश्वरभेदोऽभ्युपगतः । अन्यैस्तु परमाणुप्रभवमभ्युपगतं जगद् तत्रापि सेश्वरनिरीश्वरभेदाद् भेदोऽभ्युपगत एव । सेश्वरपक्षेऽपि स्वकृतकर्मसापेक्षत्वानपेक्षत्वाभ्यां तदवस्थ एव भेदाभ्युपगमः । कैश्चित् स्वभावकालयदृच्छादिवादाः समाश्रिताः, तेष्वपि सापेक्षत्वानपेक्षत्वाभ्यां भेदव्यवस्थाभ्युपगतैव । तथा कारणं नित्यं कार्यमनित्यं इत्यपि द्वैतं कैश्चिदभ्युपगतम् । तत्रापि कार्यं स्वरूपं नियमेन त्यजति न वेत्ययमपि भेदाभ्युपगमः । एवं मूतैरेव मूर्तमारभ्यते, अमूर्तैरमूर्तं मूर्तैरमूर्तं अमूर्तैर्मूर्तम् इत्यनेकधा निगमार्थः सन्मतिवृत्तौ व्यवस्थितः ।
एतन्नयमालम्ब्य वैशेषिकदर्शनं प्रवृत्तम् । एवं नैयायिकदर्शनमपि, प्रायः समानत्वाद् द्वयोरिति । सङ्ग्रहनयनिस्पणम् :
सङ्ग्रहणं = सामान्यरूपतया सर्ववस्तूनामाक्रोडनं सङ्ग्रहः । सङ्गृणाति सामान्यरूपतया वा सर्वमिति वा सङ्ग्रहः ।
For Personal & Private Use Only
www.jainelibrary.org