________________
+ महोपाध्याय श्रीकृत - नयविषयककृतिः
अथवा लोकार्थनिबोधाः- निगमाः तेषु भवः कुशलो वा नैगमः ।
अयं च महासामान्यादिषु क्रमेण सर्वाविशुद्धो, विशुद्धाविशुद्धो विशुद्धश्च ज्ञातव्यः । एवं प्रस्थकाद्युदाहरणेष्वपि सिद्धान्तसिद्धेषु भावनीयम् । एवं घटादिष्वपि कार्यकारणयोरवयवावयविनोरन्यप्रकारेण चोपचारानुपचाराभ्यां अविशुद्ध-मध्यम- विशुद्धभेदाः भावनीयाः, एतद्व्युत्पत्त्यर्थमेव प्रस्थकादिदृष्टान्तोपदेशात् ।
૧૯૨
अस्मिन्नेव विशेषेभ्योऽन्यदेव सामान्यम्, अनुवृत्तिबुद्धिहेतुत्वात् । सामान्याच्चान्ये एव विशेषाः व्यावृत्तिबुद्धिहेतुत्वात् । एवमाश्रयादपि भिन्नमेव सामान्यं, अन्यथा व्यक्तिवत् साधारण्यानुपपत्तेः ।
एवं तुल्याकृतिगुणक्रियैकप्रदेशनिर्गतागतपरमाणुषु योगिनां परस्परभेदबुद्धिहेतुरन्त्यविशेषोऽपि परमाणुभ्यो भिन्न एव, स्वस्मिन्नितरभेदबुद्धेः स्वातिरिक्तविशेषहेतुकत्वनियमाद् गोत्वादिसामान्यविशेषस्थले तथादर्शनादित्यवधेयम् ।
नन्वेवं द्रव्यार्थविषयं सामान्यं पर्यायार्थविषयं विशेषं चेच्छन् नैगमः साधुवदुभयनयावलम्बित्वेन सम्यग्दृष्टिः स्यादिति चेन्न, परस्परं वस्तुतश्च भिन्नसामान्यविशेषाभ्युपगन्तृत्वेनास्य कणादवत् मिथ्यादृष्टित्वात् । तदुक्तं महाभाष्ये सन्मतौ च -
दोहि वि णएहि णीयं सत्थमुलुयस्स तहवि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अण्णोण्णनिरवेक्खा ॥
(विशे. २१९ पू. सन्म. ३-४९ )
ननु यदि द्रव्यपर्यायोभयावगाही नैगमस्तदा 'आद्यास्त्रयो द्रव्यार्थिका अन्त्याश्चत्वारः पर्यायार्थिकाः' इति सिद्धसेनाचार्याणां 'आद्याश्चत्वारो द्रव्यार्थिका अन्त्यास्त्रयः पर्यायार्थिकाः' इति जिनभद्रगणिक्षमाश्रमणपूज्यपादानां च विभागवचनं व्याहन्येत नैगमस्योभयान्तःपातित्वेन पर्यायार्थिकाधिक्यात् । न चोभयविषयकत्वेऽपि द्रव्यांशे प्राधान्येनास्य द्रव्यार्थिकत्वमेवेति वाच्यम्, पर्यायांशेऽपि क्वचिदस्य प्राधान्यदर्शनात् । त्रिविधो ह्ययमाकरादावुदाह्रियते धर्मयोर्धर्मिणोः धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन विवक्षणात् । तत्र 'सच्चैतन्यमात्मनि ' ( प्रमा. ७–८) इत्याद्यो भेदः । अत्र चैतन्याख्यस्य धर्मस्य विशेष्यत्वेन प्राधान्यात्, सत्ताख्यधर्मस्य तु विशेषणत्वेनोपसर्जनभावात् । 'वस्तु पर्यायवद् द्रव्यम्' (७-९) इति द्वितीयो भेदः वस्त्वाख्यधर्मिणो विशेष्यत्वेन प्राधान्यात् पर्यायवद्द्रव्यस्य तु विशेषणत्वेनोपसर्जनभावात् । 'क्षणमेकं सुखी विषयासक्तो जीवः' (७-१०) इति तृतीयो भेदः । अत्र विषयासक्तजीवाख्यधर्मिणो विशेष्यत्वेन मुख्यत्वात् सुखलक्षणधर्मस्य तु विशेषणत्वेनोपसर्जनत्वात् । इत्थं चात्र धर्मप्राधान्ये पर्यायप्राधान्यात् पर्यायार्थिकत्वमपि दुर्निवारमिति चेत्, सत्यं, द्रव्यपर्यायोभयग्राहित्वेऽपि नैगमस्याधिकृतवस्तुनि द्रव्यपर्यायान्यतरात्मकत्वजिज्ञासायां द्रव्यांशाप्रतिक्षेपेणैव द्रव्यार्थिकत्वनिर्धारणात् सामान्यरूपस्यास्य सङ्ग्रहे विशेषरूपस्य च व्यवहारेऽन्तर्भावपक्षे व्यवहारस्यापि द्रव्यार्थतायाश्चिन्त्यत्वापत्तेः । निर्णीते च स्वस्वान्यविषय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org