________________
है अनेकान्तव्यवस्था के
(४) बन्धो नाम आश्रवात्तकर्मण आत्मना सह प्रकृत्यादिविशेषतः संयोगः । (५) आश्रवनिरोधहेतुः संवरः। (६) विपाकात् तपसो वा कर्मणां शाटो निर्जरा । (७) सर्वोपाधिविशुद्धात्मलाभो मोक्षः । "इत्येष सप्तविधोऽर्थस्तत्त्वम्, एते वा सप्तपदार्थास्तत्त्वानि" इति भाष्यकारः ।
ननु कथं सप्तैव तत्त्वानि?, पुण्यपापयोरप्यधिकयोः सत्त्वादिति, चेन्न बन्ध एव तयोरन्तर्भावमभिप्रेत्य भेदेनानभिधानात् । ___ हन्त ! तर्हि 'जीवाजीवास्तत्त्वम्' एतावदेव वाच्यं स्यात्, आश्रवादीनां पञ्चानां जीवाजीवयोरभिन्नत्वात्, तथा हि - आश्रवो मिथ्यादर्शनरूप: परिणामो जीवस्य, स च क आत्मानं पुद्गलांश्च विहाय ?; बन्धश्चात्मप्रदेशसंश्लिष्टकर्मपुद्गलात्मकः, संवरोऽप्यात्मन एवाश्रवनिरोधलक्षणो देशसर्वनिर्वृतिपरिणामः । निर्जरा तु पार्थक्यापन्नजीवपुद्गलदशैव । मोक्षोऽपि समस्तकर्मरहित आत्मैवेति चेत्, इदमित्थमेव, किन्त्विदं शास्त्रं मुमुक्षुशिष्यप्रवृत्तये, सा च मुक्ति-संसारयोः कारणयोर्भेदेनाभिधानं विना न स्यादित्याश्रवो बन्धश्चेति द्वयं मुख्यं संसारकारणं, संवरो निर्जरा चेति द्वयं मुख्यं मोक्षकारणमुपात्तं, यत्तु मुख्यं प्रयोजनं मोक्षो यदर्थाः सर्वाः प्रवृत्तयः स कथं न प्रदर्येत? इति युक्तं पञ्चानामप्युपादानम् । तदेवं जीवाजीवादीनि सप्तैव तत्त्वानीति स्थितम् ।।
यदि चाभ्युदयहेतुतया पुण्यस्य तत्प्रतिपक्षतया पापस्यापि च पृथग् निरुपणमावश्यकं तदाभ्युदयनिःश्रेयसहेतुप्रवृत्त्यनुकूलज्ञानविषयतया जीवाजीवादयो नवैव पदार्थाः निरूपणीयेति परममुनिसिद्धान्तसरणिः । ___अथ किमेतेषु भावाभावादिशबलैकरूपत्वम् ? उच्यते विषयतया भावाभावाद्याकारबुद्धिजनकपरिणामद्वयतादात्म्यापन्नजात्यन्तरैकधर्मित्वम् । अस्ति बैकस्य जीवाजीवादेः स्व-परद्रव्यादिनिबन्धनो भावाभावादिरूपो द्विविधः परिणामः, यद्बलात् तत्र ‘अस्ति' 'नास्ति' इति प्रत्ययद्वयमुपजायते । तदेवं व्यवस्थितं जीवाजीवादीनां विचित्रभावाभावादिशबलैकरूपत्वम् ।।
अथ के ते नयाः ? यैः प्रतिनियतधर्मग्रह इति ? उच्यते -
नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूद्वैवम्भूता नयाः । नैगमनयनिरूपणम् -
तत्र नैकै:- प्रभूतैः मानैः- महासामान्यावान्तरसामान्यविशेषज्ञानलक्षणैः, मिनोति मिमीते वा निरुक्तविधिना वर्णविपर्ययान्नैगमः । वर्णविपर्ययः ककारस्थाने गकारः । यदुक्तम् -
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org