SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥अनेकान्त-व्यवस्था ॥ महोपाध्याय श्रीयशोविजय गणिवर मङ्गलम् : ऐन्द्रस्तोमनतं नत्वा वीतरागं स्वयम्भुवम् । अनेकान्तव्यवस्थायां श्रमः कश्चिद् वितन्यते ॥१॥ प्रस्तावना: जिनमतमतिगंभीरं नयलवविद्भिः परैरनन्तनयम् । आघ्रातुमपि न शक्यं हरिणेन व्याघ्रवदनमिव ॥२॥ वस्तुधर्मो ह्यनेकान्तः प्रमाणनयसाधितः । अज्ञात्वा दूषणं तस्य निजबुद्धेविडम्बनम् ॥३॥ अनेकान्तलक्षणम् - सप्ततत्त्वानि च : अथ कोऽयमनेकान्तः? उच्यते तत्त्वेषु भावाभावादिशबलैकरूपत्वम् । कानि तत्त्वानीति चेत् ? तत्रेदं तत्त्वार्थ-महाशास्त्रसूत्रम्"जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम्" (१-४) (१) जीवाः - औपशमिकादिभावान्विताः । (२) अजीवाः - धर्मादयश्चत्वारोऽस्तिकायाः । (३) आश्रूयते गृह्यते यैः कर्म ते आश्रवाः, शुभाशुभकर्मादानहेतव इत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy