________________
+ महोपाध्यायश्रीकृत-नयविषयककृति:+
‘सङ्गृहीतपिण्डीतार्थं सङ्ग्रहवचनं' इत्यागमः ।
अस्यार्थः सङ्गृहीतः = सामान्याभिमुखेन गृहीतः, पिण्डीत: - एकजातिमानीतः । यद्वा-सङ्गृहीतः अनुगमविषयीकृतः, पिण्डीतः निराकृतपराभिमतव्यतिरेकः । यद्वा-सङ्गृहीतः = सत्ताख्यमहासामान्यभावमापन्नोऽर्थोः यस्य तत्तथा सङ्ग्रहवचनं । अन्तः क्रोडीकृतसर्वविशेषस्य सामान्यस्यैव तेनाभ्युपगमात् । 'सद्' इत्येवं भणिते सर्वत्र भुवनत्रयान्तर्गते वस्तुनि बुद्धेरनुधावनात् । घटपटादीनां हि भावान्यत्वे खरविषाणप्रख्यत्वं तदनन्यत्वे च सामान्यैकपरिशेष एव न्याय्य इति । यन्महाभाष्यकृत्
૧૯૪
=
कुम्भो भावान्नो जड़ तो भावो अहन्नहाभावो । एवं पड़ादओ वि भावाणन्नत्ति तम्मतं ॥
चूओ विणस्सइ च्चिय मूलाइगुणोत्ति तस्समूहो वा । .
माओ वि एवं सव्वे न वणस्सइविसिठ्ठा ॥ विशे. २२०८-१० ॥
अत एव यत्र विशेषक्रिया न श्रूयते तत्रास्ति - भवतीत्यादिका प्रयुज्यते इति शाब्दिकाः । सत्तायाः सर्वपदार्थाव्यभिचारात् । यदेव च सर्वाव्यभिचाररूपं तदेव परमार्थिकं यच्च व्यभिचारि तत् प्रबुद्धवासनाविशेषनान्तरीयकोपस्थितिकमप्यपारमार्थिकम् ॥
एतन्नयमाश्रित्य चिदानन्दैकरससदद्वैतप्रतिपादकं वेदान्तदर्शनमुद्भूतम् ॥
व्यवहारनयनिरूपणम् :
व्यवहरणं व्यवहारः ।
व्यवहरतीति वा व्यवहारः ।
विशेषतोऽवह्रियते-निराक्रियते सामान्यमनेनेति वा व्यवहारः ।
अयमुपचारबहुलो लोकव्यवहारपरः ।
‘वच्चइ विणिच्छियत्थं, ववहारो सव्वदव्वेसु' (विशे. २१८३) इति सूत्रम् ।
व्यवहारः सर्वद्रव्येषु विचार्य विशेषानेव व्यवस्थापयतीति एतदर्थः । इत्थं ह्यसौ विचारयति ननु 'सदिति यदुच्यते तद् घट - पटादिविशेषेभ्यः किमन्यन्नाम ? वार्तामात्रप्रसिद्धं सामान्यमनुपलम्भान्नास्त्येव ।'
Jain Education International
अथवा 'वच्चइ' इत्यादेर्लोकव्यवहारो विनिश्चयतः तदर्थं व्रजति व्यवहार इत्यर्थः । तथा हिनिश्चयनयमतेन भ्रमरादेः पञ्चवर्णद्विगन्धपञ्चरसाष्टस्पर्शवत्त्वे सत्यपि तत्र कृष्णवर्णादौ जनपदस्य निश्चयो भवति, तमेवार्थं व्यवहारनयः स्थापयति न तु सम्मतमप्यन्यत्, तथैव लोकव्यवहारनिर्वहात् । न चैवं भ्रमरो न श्वेतः इत्याद्यध्यक्षशाब्दयोरतस्मिंस्तद्ग्राहकत्वेन लौकिकप्रामाण्यमपि न स्यादिति
For Personal & Private Use Only
www.jainelibrary.org