________________
૧૯૫
शङ्कनीयं ‘न श्वेतः' इत्याद्यध्यक्षस्योद्भूततया श्वेताद्यभावविषयकत्वोपगमात्, तादृशशब्दस्थले च भावसत्यताग्राहकव्युत्पत्तिमहिम्ना श्वेतादिपदानामुद्भूतश्वेतादिपरत्वग्रहेण दोषाभावादिति दिग् ॥
अस्मान्नयादेकान्तनित्यचेतनाचेतनवस्तुद्वयप्रतिपादकं साङ्ख्यदर्शनमुत्पन्नम् । यद् वादी
जं काविलं दरिसणं, एवं दव्वट्ठियस्स वत्तव्वं ॥ सन्म. ३-४८॥
द्रव्यार्थिकपदमत्र व्यवहारलक्षणाशुद्धद्रव्यार्थिकपरं द्रष्टव्यं शुद्धद्रव्यार्थिकप्रकृतेः सङ्ग्रहनयरूपाया वेदान्तदर्शनोत्पत्तिमूलताया उक्तत्वात् ॥
ऋजुसूत्रनयनिरूपणम्
अनेकान्तव्यवस्था÷
ऋजु - अवक्रं श्रुतं - ज्ञानमस्य ऋञ्जुश्रुतः ।
सूत्रः । यद् भाष्यकृद्
यद्वा ऋतु-अवक्रं वस्तु सूत्रयतीति उज्जुं उज्जुं सुयं नाणं उज्जुयमस्स सोयमुज्जुसुओ । सुत्तयइ वा जमुज्जुं वत्थं तेणुज्जुसुत्तोत्ति ॥ विशे. २२२२ ॥
ऋजुत्वं चैतदभ्युपगतवस्तुनोऽवर्तमानपरकीयनिषेधेन प्रत्युत्पन्नत्वम् । अतीतमनागतं परकीयं च वस्त्वेतन्मते वक्रं, प्रयोजनाकर्तृत्वेन परधनवत् तस्यासत्त्वात्, स्वार्थक्रियाकारित्वस्यैव स्वसत्तालक्षणत्वात् ।
अत एव व्यवहारनयवादिनं प्रति अयमेवं पर्यनुयुङ्क्ते - 'यदि व्यवहारानुपयोगादनुपलम्भाच्च सङ्ग्रहनयसम्मतं सामान्यं त्वं नाभ्युपगच्छसि तदा तत एव हेतुद्वयात् गतमेष्यत् परकीयं च वस्तु माभ्युपगम । न हि तैः कश्चिद् व्यवहारः क्रियते उपलब्धिविषयीभूयते वा । वासनाविशेषजनितो व्यवहारस्तु सामान्येऽप्यतिप्रसज्यत इति यत् स्वकीयं साम्प्रतकालीनं च तद्वस्तु ।
लिङ्गसङ्ख्यादिभेदेऽपि 'तटस्तटीतटम्' इत्यादौ 'गुरुर्गुरवः' 'आपो जलम्' 'दाराः कलत्रं' इत्यादौ च विपरिणतनानापर्यायशब्दवाच्यं निक्षेपचतुष्टयाक्रान्तमपि एकमेव स्वीकुरुते ऋजुसूत्रनयः। न तु शब्दनयवत् भावरूपैकनिक्षेपाक्रान्तं लिड्ग-सङ्ख्याभिन्नपर्यायशब्दावाच्यं च । तदाह भाष्यकृत्
तम्हाणिययं संपइकालीणं लिंगवयणभिन्नपि ।
नामादिभेदे विहियं पडिवज्जइ वत्थुमुज्जुसुत्तो ति ॥२२२३ विशे. ॥ अस्मान्नयात् परपर्यायासंस्पर्शि एकपर्याये वचनं विच्छिन्दद् बौद्धदर्शनं प्रवृत्तम् ॥
शब्दनयनिरूपणम् :
'शप् आक्रोशे' शपं-आह्वानमिति शब्दः ।
शपतिं - आह्वयतीति वा शब्दः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org