________________
* महोपाध्यायश्रीकृत-नयविषयककृति: * शप्यते वाहूयते वस्त्वनेनेति शब्दः । ___ शब्दस्य यो वाच्योऽर्थस्तत्प्रधानत्वान्नयोऽपि शब्दः उपचारात् । यथा कृतकत्वादित्यादिकः पञ्चम्यन्तशब्दोऽपि हेतुः । अर्थरूपं हि कृतकत्वमनित्यत्वगमकत्वान्मुख्यतया हेतुरुच्यते उपचारात्तु तद्वाचकः शब्दः । तद्वदिहापि द्रष्टव्यम् । उक्तं च महाभाष्यकृता -
सवणं सपइ स तेणं व सप्पए वत्थु जं सद्दो ।
तस्सत्थपरिग्गहओ नओ वि सद्दो त्ति हेउ व्व ॥२२२७॥ शब्दवाच्यार्थपरिग्रहप्राधान्यम्इच्छइ विसेसियतरं पच्चुप्पण्णो नओ सद्दो ॥२१८४॥ नि. ॥ इति नियुक्तिदलं तत्र भाष्यम् -
तं चिय रिउसुत्तमयं पच्चुप्पन्नं विसेसियतरं सो।
इच्छइ भावघडं चिय जं न उ नामादिए तिण्णे ॥२२२८॥ तदेव ऋजुसूत्रनयमतं - ऋजुसूत्रनयाभ्युपगतं । प्रत्युत्पन्नं वर्तमानं वस्तु इच्छति । असौ - शब्दनयः । कीदृशं? विशेषिततरं । कुत इदं ज्ञायते ? यद् - यस्मात् पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ । न तु शेषान्नाम-स्थापनाद्रव्यरूपास्त्रीन् घटानिति । शब्दार्थप्रधानो ह्येष नयः । शब्दार्थश्च प्रकृते घट चेष्टायामिति धात्वर्थलक्षणो भावघट एव युज्यते, न नामादिष्विति निक्षेपचतुष्टयाभ्युपगमपराद् ऋजुसूत्राद् विशेषिततरं वस्तु इच्छत्यसौ, एकस्यैव भावघटस्यानेनोपगमाद् । नामादिघटनिराकरणे प्रमाणम् -
नामादओ न कुंभा तक्कज्जाकरणओ पडाइव्व ।
पच्चक्खविरोहाओ तल्लिगाभावओ वा वि ॥२२२९ वि. ॥ · नाम-स्थापना-द्रव्यरूपाः कुम्भा न भवन्ति, जलाहरणादितत्कार्याकरणात् पटादिवत्, तथा प्रत्यक्षविरोधात् तल्लिगादर्शनाच्च । अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्त इति प्रत्यक्षविरोधः, जलाहरणादि तल्लिङ्गं च तेषु न दृश्यते ततोऽनुमानविरोधोऽपीति कथं ते नामादिघटा घटव्यपदेशभाजो भवेयुः?। घटपदान्नामादिघटोपस्थितेरस्खलिताया दर्शनात् तत्र तत्पदशक्तेरव्याहतत्वात् स्वारसिकघटपदलक्षणो व्यपदेशस्तेषु न विरुध्यत इति चेत्, न, अन्तरङ्गप्रत्यासत्त्या भावघट एव घटपदशक्तेरभ्युपगमात्, नामादिषु तत्पदप्रयोगस्यास्वारसिकत्वादिति दिग् । अथवा लिङ्गवचने समाश्रित्य विशेषिततरं वस्त्विच्छति शब्दनय इति दर्शयन्नाह भाष्यकृत् -
वत्थुमविसेसओ वा जं भिन्नाभिन्नवयणं पि । इच्छइ रिउसुत्तनओ विसेसियतरं तयं सद्दो ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org