________________
* अनेकान्तव्यवस्था है
૧૯૭
कुत? इत्याह -
धणिभेयाओ भेओ त्थीपलिंगाभिहाणवच्चाणं ।
पडकुंभाणं व जओ तेणाभिन्नत्थमिटुं तं ॥ ___ यादृशो ध्वनिस्तादृश एवार्थोऽस्येष्ट इति । अन्यलिङ्गवृत्तेस्तु शब्दस्य नान्यलिङ्गवाच्यमिच्छत्यसौ । नाप्यन्यवचनवृत्तेः शब्दस्य अन्यवचनवाच्यं वस्त्वभिधेयमिच्छत्यसौ इति भावः । समभिरूढेन सहास्य मतभेदं दर्शयति -
बहुपज्जायं पि मयं सद्दत्थवसेण सद्दस्स। 'बहुपर्यायमपि' - 'इन्द्रः शक्रः पुरन्दरः' इत्यादिनानापर्यायवाच्यमप्येकमिन्द्रादिकं वस्तु 'शब्दस्य' इन्द्रादेरिन्दनादिको योऽर्थस्तद्वशेन शब्दनयस्य मतमभिमतम् । इन्दन-शकन-पूर्दारणादीनामर्थानामेकस्मिन्निंद्रादिके वस्तुनि समावेशासम्भवात् । समभिरूढस्तु नैवं मन्यत इति स्फुटीभविष्यतीत्यनयोर्भेदः ॥ समभिन्ढनयनिरूपणम् : एकामेव सज्ञां समभिरोहतीति समभिरूढः । आह च भाष्यकृत्
जं जं सण्णं भासइ तं तं चिय समभिरोहए जम्हा ।
सण्णंतरत्थविमुहो तओ णओ समभिढो त्ति ॥२२३६॥ यां यां संज्ञां 'घटः' इत्यादिरूपां भाषते तां तामेव यस्मात् संज्ञान्तरार्थविमुखः कुटकुम्भादिशब्दवाच्यार्थनिरपेक्षः समभिरोहति - तत्तद्वाच्यार्थविषयत्वेन प्रमाणीकरोति, ततः - तस्मादर्थसमभिरोहणात् समभिरूढो नयः । यो घटशब्दवाच्योर्थस्तं कुटकुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः ।
वत्थूओ संकमणं होइ अवत्थु णए समभिरूढे ।। इति नियुक्तिदलम् । ' एतन्नये परगतस्य दानहरणादेर्नास्त्येव सद्भावः, स्वगतं तत्फलं तु स्वगतदानहरणादिअध्यवसायविशेषादेवेति विवेचितमन्यत्र ।।
अयं पुनरिह शब्दसमभिरूढयोरवान्तरविशेषोऽनुसंधेयः यदायेन बाह्यवस्तु सन्निधापितस्तदाकाराध्यवसायः फलक्षमोऽभ्युपेयः, द्वितीयेन तु वासनामात्रोत्थापित इति । इत्थमेव नैगमनये जीवाजीवयोहिंसा, सङ्ग्रहव्यवहारयोः षट्स्वेव कायेषु, ऋजुसूत्रे प्रतिजीवं भिन्ना भिन्ना सा, शब्दनये तु स्वपरिणामविशेषरूपैव सा इत्यादि नयविचारे शब्दसमभिरूढयो वहिंसाद्याश्रित्य विषयभेदः सङ्गच्छते । एवम्भूतस्तु क्रियाकालान्यकालस्पर्शिपदार्थप्रतिषेधादेव विशिष्यत इति न तत्र युक्त्यन्तरं मृग्यम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org