Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 228
________________ * महोपाध्यायश्रीकत-नया 'अर्थानां सर्वेकदेशसग्रहणं सङ्ग्रहः' इति तत्त्वार्थभाष्यम् । अर्थेति । अत्र सर्व सामान्यं, एकदेशश्च विशेषः । तयोः सङ्ग्रहणं सामान्यैकदेश-स्वीकार इत्यर्थः। अयं हि घटादीनां भवनानन्तरत्वात् तन्मात्रमेव स्वीकुरुते, घटादिविशेषविकल्पस्तु अविद्योपजनित एवेत्यभिमन्यते । जगदैक्ये घटपटादिभेदो न स्यादिति चेत्, न स्यादेव वास्तवः, रज्जौ सर्पभ्रमनिबन्धनसर्पादिवद् अविद्याजनितोऽनिर्वचनीयस्तु स्यादेवेत्याद्या एतन्मूलिका औपनिषदादीनां युक्तयः ।। अस्यापि चत्वारो निक्षेपा अभिमताः ।। व्यवहारनयनिरूपणम् : 'लोकव्यवहारौपयिकोऽध्यवसायविशेषो व्यवहारः' 'वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसु' इति सूत्रम् (अनु. १५२) 'विणिच्छियत्थं' इति । विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् । अत एव विशेषेण अवह्रियते निराक्रियते सामान्यमनेनेति निरुक्त्युपपत्तिः । अयं हि जलाहरणाद्युपयोगिनो घटादिविशेषानेवाङ्गीकरोति न तु सामान्यं, अर्थक्रियाऽहेतोस्तस्य शशशृङ्गप्रायत्वात् । 'लौककसम उपचारप्रायो विस्तृतार्थो व्यवहारः' इति तत्त्वार्थभाष्यम् । लौकिकेति । विशेषप्रतिपादनपरमेतत् । यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवर्णत्वमङ्गीकरोति तथायमपीति । लौकिकसम इति । कुण्डिका स्रवति, पन्थाः गच्छतीत्यादौ बाहुल्येन गौणप्रयोगाद् उपचारप्रायः विशेषप्रधानत्वाच्च विस्तृतार्थ इति । अयमपि सकलनिक्षेपाभ्युपगमपर एव । ऋजुसूत्रनयनिरूपणम् : 'प्रत्युत्पन्नग्राही अध्यवसायविशेष ऋजुसूत्रः' । पच्चुप्पण्णग्गाही उज्जुसूओ णयविही मुणेयव्वो । इति सूत्रम् (अनु. १५२) प्रत्युत्पन्नग्राहित्वं च भावत्वेऽतीतानागतसम्बन्धाभावव्याप्यत्वोपगन्तृत्वं, नातोऽतिप्रसङ्गः। ‘सतां साम्प्रतानामभिधानपरिज्ञानं ऋजुसूत्र' इति तत्त्वार्थभाष्यम् (१-३५) व्यवहारातिशायित्वं लक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुक्तम् । व्यवहारो हि सामान्य व्यवहारानङ्गत्वान्न सहते, कथं तर्हि अर्थमिति परकीयं अतीतमनागतं चाप्यभिधानमपि तथाविधार्थवाचकं ज्ञानमपि च तथाविधार्थविषयमविचार्य सहेत? इत्यस्याभिमानः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280