________________
* महोपाध्यायश्रीकत-नया
'अर्थानां सर्वेकदेशसग्रहणं सङ्ग्रहः' इति तत्त्वार्थभाष्यम् । अर्थेति । अत्र सर्व सामान्यं, एकदेशश्च विशेषः । तयोः सङ्ग्रहणं सामान्यैकदेश-स्वीकार इत्यर्थः।
अयं हि घटादीनां भवनानन्तरत्वात् तन्मात्रमेव स्वीकुरुते, घटादिविशेषविकल्पस्तु अविद्योपजनित एवेत्यभिमन्यते ।
जगदैक्ये घटपटादिभेदो न स्यादिति चेत्, न स्यादेव वास्तवः, रज्जौ सर्पभ्रमनिबन्धनसर्पादिवद् अविद्याजनितोऽनिर्वचनीयस्तु स्यादेवेत्याद्या एतन्मूलिका औपनिषदादीनां युक्तयः ।।
अस्यापि चत्वारो निक्षेपा अभिमताः ।। व्यवहारनयनिरूपणम् :
'लोकव्यवहारौपयिकोऽध्यवसायविशेषो व्यवहारः' 'वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसु' इति सूत्रम् (अनु. १५२)
'विणिच्छियत्थं' इति । विनिश्चितार्थप्राप्तिश्चास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् । अत एव विशेषेण अवह्रियते निराक्रियते सामान्यमनेनेति निरुक्त्युपपत्तिः ।
अयं हि जलाहरणाद्युपयोगिनो घटादिविशेषानेवाङ्गीकरोति न तु सामान्यं, अर्थक्रियाऽहेतोस्तस्य शशशृङ्गप्रायत्वात् । 'लौककसम उपचारप्रायो विस्तृतार्थो व्यवहारः' इति तत्त्वार्थभाष्यम् ।
लौकिकेति । विशेषप्रतिपादनपरमेतत् । यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवर्णत्वमङ्गीकरोति तथायमपीति ।
लौकिकसम इति । कुण्डिका स्रवति, पन्थाः गच्छतीत्यादौ बाहुल्येन गौणप्रयोगाद् उपचारप्रायः विशेषप्रधानत्वाच्च विस्तृतार्थ इति ।
अयमपि सकलनिक्षेपाभ्युपगमपर एव । ऋजुसूत्रनयनिरूपणम् :
'प्रत्युत्पन्नग्राही अध्यवसायविशेष ऋजुसूत्रः' । पच्चुप्पण्णग्गाही उज्जुसूओ णयविही मुणेयव्वो । इति सूत्रम् (अनु. १५२) प्रत्युत्पन्नग्राहित्वं च भावत्वेऽतीतानागतसम्बन्धाभावव्याप्यत्वोपगन्तृत्वं, नातोऽतिप्रसङ्गः। ‘सतां साम्प्रतानामभिधानपरिज्ञानं ऋजुसूत्र' इति तत्त्वार्थभाष्यम् (१-३५) व्यवहारातिशायित्वं लक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुक्तम् ।
व्यवहारो हि सामान्य व्यवहारानङ्गत्वान्न सहते, कथं तर्हि अर्थमिति परकीयं अतीतमनागतं चाप्यभिधानमपि तथाविधार्थवाचकं ज्ञानमपि च तथाविधार्थविषयमविचार्य सहेत? इत्यस्याभिमानः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org