________________
* नयरहस्यप्रकरणम् *
૧૮૫
लक्षणग्रन्थः: नैगमनयनिरूपणम् :
अथ एतेषां लक्षणानि वक्ष्यामः ।
निगमेषु भवोऽध्यवसायविशेषो नैगमः । निगमेष्विति । तद्भवत्वं च लोकप्रसिद्धार्थोपगन्तृत्वम् । लोकप्रसिद्धिश्च सामान्यविशेषाधुभयोपगमेन निर्वहति । "णेगेहिं माणेहिं मिणइत्ति य णेगमस्स य नित्ति" इति सूत्रम् (अनु. १३६) नैकमानमेयविषयोऽध्यवसायो नैगम इत्येतदर्थः ॥
"निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देशसमग्रग्राही नैगमः" इति तत्त्वार्थभाष्यम् (१-३५)
अत्र पूर्वदलं मदुक्तलक्षणकथनाभिप्रायं, उत्तरदलं च विषयविभागनिरूपणाभिप्रायमात्रम् । देशग्राहित्वं-विशेषप्रधानत्वं, समग्रग्राहित्वं च सामान्यप्रधानत्वं पारिभाषिकम् । अस्य च चत्वारोऽपि निक्षेपा अभिमताः । नाम स्थापना द्रव्यं भावश्चेति ।।
नामेति । 'घट' इत्यभिधानमपि घट एव । 'अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः' इति वचनात् । वाच्यवाचकयोरत्यन्तभेदे प्रतिनियतपदशक्त्यनुपपत्तेश्च।
स्थापनेति । घटाकारोऽपि घट एव तुल्यपरिणामत्वात्, अन्यथा तत्त्वायोगात् । द्रव्यमिति । मृत्पिण्डादिर्द्रव्यघटोऽपि घट एवान्यथा परिणामपरिणामिभावानुपपत्तेः ।
भाव इति । भावघटपदं चासंदिग्धवृत्तिकमेव । सङ्ग्रहनयनिस्त्पणम् : 'नैगमाद्युपगतार्थसङ्ग्रहप्रवणोऽध्यवसायविशेषः सङ्ग्रहः' ।
नैगमेति । सामान्यनैगमवारणाय 'नैगमायुपगतार्थ'पदम् । सङ्ग्रहश्च विशेषविनिर्मोकोऽशुद्धविषयविनिर्मोकश्चेत्यादि यथासंभवमुपादेयम् । तत्प्रवणत्वं च तन्नियतबुद्धिव्यपदेशजनकत्वं, तेन नार्थरूपसङ्ग्रहस्य नयजन्यत्वानुपपत्तिदोषः ।
'संगहिय-पिंडियत्थं संगहवयणं समासओ बिति' इति सूत्रम् । (अनु. १५२)
अत्र सङ्ग्रहीतं सामान्याभिमुखग्रहणगृहीतं, पिण्डितं च विवक्षितैक जात्युपरागेण प्रतिपिपादयिषितमित्यर्थः।
सङ्ग्रहीतं महासामान्यं, पिण्डितं तु सामान्यविशेष इति वार्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org