SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ * महोपाध्यायश्रीकृत-नयविषयककृति: * निर्भासकत्वं शृङ्गग्राहिकया वस्त्वंशज्ञापकत्वम् । उपलम्भकत्वं प्रतिविशिष्टक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्वम् । व्यञ्जकत्वं च प्राधान्येन स्वविषयव्यवस्थापकत्वम् । एवं च पदार्थं प्रतिपादयन्नपि भाष्यकारस्तत्त्वतो लक्षणान्येव सूत्रितवान् । विभागग्रन्थः : द्वौ मूलभैदौ - द्रव्यार्थिकः पर्यायार्थिकश्च । द्रव्यार्थिकनयलक्षणम् : तत्र 'द्रव्यमात्रग्राही नयो द्रव्यार्थिकः' । अयं हि द्रव्यमेव तात्त्विकमभ्युपैति, उत्पाद-विनाशौ पुनरतात्त्विको, आविर्भावतिरोभावमांत्रत्वात् । पर्यायार्थिकनयलक्षणम् : 'पर्यायामात्रग्राही पर्यायार्थिकः'। ___ अयं हि उत्पाद-विनाश-पर्यायमात्राभ्युपगमप्रवणः, द्रव्यं तु सजातीयद्रव्यातिरिक्तं न मन्यते, तत एव प्रत्यभिज्ञाद्युत्पत्तेः । न चैवं इतरांशप्रतिक्षेपित्वात् दुर्नयत्वं, तत्प्रतिक्षेपस्य प्राधान्यमात्र एवोपयोगात् । द्रव्यार्थिकनयभेदाः : आद्यस्य चत्वारो भेदा:-नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्रश्चेति जिनभद्रगणिक्षमाश्रमणप्रभृतयः । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तदा ‘उज्जुसुअस्स एगे अणुवउत्ते एगं दव्वावस्सयं, पुहुत्तं नेच्छइत्ति' (अनु. १४) इति सूत्रं विरुध्येत। _ 'ऋजुसूत्रवर्जास्त्रय एव द्रव्यार्थिकभेदाः' इति तु वादिनः सिद्धसेनस्य मतम् । अतीतानागत-परकीयभेद-पृथक्त्वपरित्यागाद् ऋजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवोपगमात् नास्य तुल्यांश-ध्रुवांशलक्षणद्रव्याभ्युपगमः । उक्तसूत्रं तु अनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्योपचारात् समाधेयम् । पर्यायार्थिकनयभेदाः : पर्यायार्थिकस्य त्रयो भेदाः 'शब्दः समभिरुढ एवम्भूतश्चेति' संप्रदायः । ऋजुसूत्राद्याश्चत्वार इति तु वादी सिद्धसेनः । तदेवं सप्तोत्तरभेदाः । सप्तेति । शब्दपदेनैव साम्प्रत-समभिरूद्वैवम्भूतात्मकनयभेदतया उपसनात् ‘पञ्च' इत्यादेशान्तरम् । ॥ इति विभागग्रन्थः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy