SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ मङ्गलाचरणम् : नयसामान्यलक्षणम् : ॥ नयरहस्यप्रकरणम् ॥ महोपाध्याय श्रीयशोविजयजी गणिवर ऐन्द्रश्रेणिनतं नत्वा वीरं तत्त्वार्थदेशिनम् । परोपकृतये ब्रूमो रहस्यं नयगोचरम् ॥ Jain Education International प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी अध्यवसायविशेषो नयः ॥ पदकृत्यम् : दुर्नयस्यापि अधिकृतांशाप्रतिक्षेपित्वात् तत्रातिव्याप्तिवारणाय 'प्रकृतवस्त्वंशग्राही' इति । एवं च 'तत्' पदेनं तद्-भिन्न प्रतिपन्थिधर्मोपस्थितेर्न दोषः । प्रकृतवस्त्वंशग्राहित्वमपि दुर्नये ऽतिव्याप्तमेवेति 'तदितरांशाप्रतिक्षेपी' इति । सप्तभङ्गात्मकशब्दप्रमाणप्रदीर्घसन्तताध्यवसायैकदेशे अतिव्याप्तिवारणाय 'अध्यवसाय'पदम् । रूपादिग्राहिणि रसाद्यप्रतिक्षेपिणि अपायादिप्रत्यक्षप्रमाणे अतिव्याप्तिवारणाय 'विशेष'पदम् । भाष्यकृत्प्रतिपादित-नयलक्षणानि : "नयाः प्रापकाः, साधकाः, निर्वर्तकाः, निर्भासकाः, उपलम्भकाः, व्यञ्जका इत्यनर्थान्तरम्" इति भाष्यम् । (१.३५) अत्र प्रापकत्वं - प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमद्भावापन्ननानाधर्मैकतरमात्रप्रकारकत्वम् । साधकत्वं तथाविधप्रतिपत्तिजनकत्वम् । निर्वर्तकत्वं अनिवर्तमाननिश्चितस्वाभिप्रायकत्वम् । For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy