SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ शब्दनयनिरूपणम् : अस्यापि चत्वारो निक्षेपा अभिमताः । द्रव्यनिक्षेपं नेच्छत्ययमिति वादिसिद्धसेनमतानुसारिण:, तेषामुक्तसूत्रविरोधः । न चोक्त एव तत्परिहार एतन्मतपरिष्कार इति वाच्यम्, नामादिवदनुपचरितद्रव्यनिक्षेपदर्शनपरत्वादुक्तसूत्रस्य तदनुपपत्तेः । अधिकमन्यत्र ॥ ( भाव = आदेशान्तरे "यथार्थाभिधानं शब्द" इति त्रयाणां लक्षणम् । भावमात्राभिधानप्रयोजकोऽध्यवसायविशेष इति एतदर्थः । तेन न अतिप्रसङ्गादिदोषोपनिपातः भावनिक्षेप) नयरहस्यप्रकरणम् तत्रापि 'नामादिषु प्रसिद्धपूर्वात् शब्दात् अर्थप्रत्ययः साम्प्रतः' इति साम्प्रतलक्षणम् । प्रतिविशिष्टवर्तमानपर्यायापन्नेषु नामादिष्वपि गृहीतसङ्केतस्य शब्दस्य भावमात्रबोधकत्वपर्यवसायीति तदर्थः । तथात्वं च भावातिरिक्तविषयांश उक्तसङ्केतस्याप्रामाण्यग्राहकतया निर्वहति । तज्जातीयाध्यवसायत्वं च लक्षणमिति न क्वचिदनीदृशस्थलेऽव्याप्तिः । समभिरुढाद्यतिव्याप्तिश्च अध्यवसाये विषये वा तत्तदन्यत्वदानान्निराकरणीया ॥ सम्प्रदायेऽपि 'विशेषिततरः ऋजुसूत्राभिमतार्थग्राही अध्यवसायविशेषः शब्दः' इत्यापादितसंज्ञान्तरस्यास्य लक्षणम् । 'इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो' इति सूत्रम् (अनु. १५२) अत्रापि ‘तर’प्रत्ययमहिम्ना विशेषिततमाधोवर्तिविषयाग्रहणान्न समभिरूढाद्यतिव्याप्तिरिति स्मर्तव्यम्। ऋजुसूत्राद् विशेषः पुनरस्येत्थं भावनीयः - यदुत संस्थानादिविशेषात्मा भावघट एव परमार्थसत् तदितरेषां तत्तुल्यपरिणत्यभावेनाघटत्वात् । अथवा लिङ्ग-वचन-सङ्ख्यादिभेदेनार्थभेदाभ्युपगमाद् ऋजुसूत्रादस्य विशेषः || अस्य च उपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः ॥ समभिख्ढनयनिरूपणम् : ૧૮૭ असङ्क्रमगवेषणपरोऽध्यवसायविशेषः समभिरूढः । "वत्थुओ संकमणं होइ अवत्थु णए समभिरूढे" इति सूत्रम् । “सत्स्वर्थेष्वसङ्क्रमः समभिरूढः इति" तत्त्वार्थभाष्यम् । Jain Education International असङ्क्रमेति । तत्त्वं च यद्यपि न संज्ञाभेदेनार्थभेदाभ्युपगन्तृत्वं घटपटादिसंज्ञाभेदेन नैगमादिभिरपि अर्थभेदाभ्युपगमात्, तथापि संज्ञाभेदनियतार्थभेदाभ्युपगन्तृत्वं तत् । एवम्भूतान्यत्वविशेषणाच्च न तत्रातिव्याप्तिः । For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy