________________
gat
* महोपाध्यायश्रीकृत-नयविषयककृतिः । अयं खल्वस्याभिमानः यदुत-यदि शब्दो लिङ्गादिभेदेनार्थभेदं प्रतिपद्यते तर्हि संज्ञाभेदेनापि किमित्यर्थभेदं न स्वीकुरुते? |
अस्याप्युपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः । एवम्भूतनयनिरूपणम् :
व्यञ्जनार्थविशेषान्वेषणपरोऽध्यवसायविशेष एवम्भूतः । 'वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ' इति सूत्रम् । 'व्यञ्जनार्थयोरेवम्भूत' इति तत्त्वार्थभाष्यम् ।
व्यज्जनेति । तत्त्वं च पदानां व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वं, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिरपि।।
अस्याप्युपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः ।
अयं खल्वस्य सिद्धान्तो यदुत-यदि घटवदव्युत्पत्त्यर्थाभावात् कुटपदार्थोऽपि न घटपदार्थस्तदा जलारणादिक्रियाविरहकाले घटोऽपि न घटपदार्थोऽविशेषादिति । नन्वेवं प्राणधारणाभावात् सिद्धोऽपि न जीवः स्यादिति चेत् ? एतन्नये न स्यादेव । तदाह भाष्यकार:
एवं जीवं जीवो संसारी पाणधारणाणुभावा ।
सिद्धो पुण अजीवो जीवणपरिणामरहिओ त्ति ॥२२५६॥ केचित्तु दिगम्बराः एवम्भूताभिप्रायेण सिद्ध एव जीवो भावप्राणधारणात् न तु संसारीति परिभाषन्ते। यदाहुः -
तिक्काले च दुपाणा इंदिय बलमाउसाणपाणे य।
ववहारा सो जीवो णिच्छयओ दुचेयणा जस्स ॥ द्रव्यसङ्ग्रहः ३ ॥ तच्चिन्त्यम्, एवम्भूतस्य जीवं प्रति औदयिकभावग्राहकत्वात् । सिद्धोऽप्येतन्नये सत्त्वयोगात् सत्त्वः । अतति सततमपरपर्यायान् गच्छतीत्यात्मा च स्यादेव । तदेवं लक्षिताः सप्तापि नयाः ॥
एतेषु च यद्यपि क्षणिकत्वादिसाधने नित्यत्वादिपराकरणमेकान्तानुप्रवेशादप्रमाणम्, तथापि परेषां तर्क इव प्रमाणानां स्वरुचिविशेषरूपनयानामनुग्राहकत्वाद् युज्यत इति सम्भाव्यते । तत्त्वं तु बहुश्रुता विदन्ति।
एतेषु च बलवत्त्वाबलवत्त्वादिविचारेऽपेक्षैव शरणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org