Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
शब्दनयनिरूपणम् :
अस्यापि चत्वारो निक्षेपा अभिमताः ।
द्रव्यनिक्षेपं नेच्छत्ययमिति वादिसिद्धसेनमतानुसारिण:, तेषामुक्तसूत्रविरोधः । न चोक्त एव तत्परिहार एतन्मतपरिष्कार इति वाच्यम्, नामादिवदनुपचरितद्रव्यनिक्षेपदर्शनपरत्वादुक्तसूत्रस्य तदनुपपत्तेः । अधिकमन्यत्र ॥
( भाव =
आदेशान्तरे "यथार्थाभिधानं शब्द" इति त्रयाणां लक्षणम् ।
भावमात्राभिधानप्रयोजकोऽध्यवसायविशेष इति एतदर्थः । तेन न अतिप्रसङ्गादिदोषोपनिपातः
भावनिक्षेप)
नयरहस्यप्रकरणम्
तत्रापि
'नामादिषु प्रसिद्धपूर्वात् शब्दात् अर्थप्रत्ययः साम्प्रतः' इति साम्प्रतलक्षणम् ।
प्रतिविशिष्टवर्तमानपर्यायापन्नेषु नामादिष्वपि गृहीतसङ्केतस्य शब्दस्य भावमात्रबोधकत्वपर्यवसायीति तदर्थः । तथात्वं च भावातिरिक्तविषयांश उक्तसङ्केतस्याप्रामाण्यग्राहकतया निर्वहति । तज्जातीयाध्यवसायत्वं च लक्षणमिति न क्वचिदनीदृशस्थलेऽव्याप्तिः । समभिरुढाद्यतिव्याप्तिश्च अध्यवसाये विषये वा तत्तदन्यत्वदानान्निराकरणीया ॥
सम्प्रदायेऽपि 'विशेषिततरः ऋजुसूत्राभिमतार्थग्राही अध्यवसायविशेषः शब्दः' इत्यापादितसंज्ञान्तरस्यास्य लक्षणम् ।
'इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सद्दो' इति सूत्रम् (अनु. १५२)
अत्रापि ‘तर’प्रत्ययमहिम्ना विशेषिततमाधोवर्तिविषयाग्रहणान्न समभिरूढाद्यतिव्याप्तिरिति स्मर्तव्यम्। ऋजुसूत्राद् विशेषः पुनरस्येत्थं भावनीयः - यदुत संस्थानादिविशेषात्मा भावघट एव परमार्थसत् तदितरेषां तत्तुल्यपरिणत्यभावेनाघटत्वात् ।
अथवा लिङ्ग-वचन-सङ्ख्यादिभेदेनार्थभेदाभ्युपगमाद् ऋजुसूत्रादस्य विशेषः ||
अस्य च उपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः ॥
समभिख्ढनयनिरूपणम् :
૧૮૭
असङ्क्रमगवेषणपरोऽध्यवसायविशेषः समभिरूढः ।
"वत्थुओ संकमणं होइ अवत्थु णए समभिरूढे" इति सूत्रम् ।
“सत्स्वर्थेष्वसङ्क्रमः समभिरूढः इति" तत्त्वार्थभाष्यम् ।
Jain Education International
असङ्क्रमेति । तत्त्वं च यद्यपि न संज्ञाभेदेनार्थभेदाभ्युपगन्तृत्वं घटपटादिसंज्ञाभेदेन नैगमादिभिरपि अर्थभेदाभ्युपगमात्, तथापि संज्ञाभेदनियतार्थभेदाभ्युपगन्तृत्वं तत् । एवम्भूतान्यत्वविशेषणाच्च न तत्रातिव्याप्तिः ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280