Book Title: Rushabh Panchashika
Author(s): Dhanpal Mahakavi, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 221
________________ ૧૮૮ अवचूरिचतुष्टयसमेता [श्रीधनपाल ध० अ०-अथ कवि जिननई अवहेलिई जीव दुक्ख देषई ते वात बोलई। हे स्वामिन् ! त्वया अवहेलिता-अवज्ञाताः सत्त्वा निगोदैकशृङ्खलाबद्धाः सन्तः अनन्तं कालं नयन्ति-गमयन्ति । हे स्वामी ! तई अवहेल्या-अवगण्या सत्त्व-प्राणीया निगोदनी एक सांकलं बांध्या हूंता अनंत काल नीगमई । किंविशिष्टाः सत्त्वाः? समं कृताहारनीहाराः समकाल कृत-कीधउ आहार अनइ नीहार छइ ॥ ३३ ॥ ने० अ०-भगवदग्रे दुःखकथनद्वारेण स्तुतिमाह-अ० । हे प्रभो!-स्वामिन् ! त्वया अवधीरिता-अवज्ञाता अवगणिताः सत्त्वाः-प्राणिनः नयन्ति-गमयन्ति कालं अनन्तम् । किंविधाः सन्तः ? निगोदैकशृङ्खलाबद्धाः-क्रोडीकृताः। यद्वा पुनः कीदृशाः ? समम्-एककालं कृतावाहारनीहारौ यैस्ते । अनन्तकालं-अनन्तानन्तपुद्गलपरावर्तान् नयन्ति-गमयन्ति ।। ननु भगवतः किं समस्तावज्ञाकारणं सत्त्वेषु येनेदमुच्यते ? नैवम् । परं ये कलुषितगात्रा: भगवन्तं नावलोकयन्ति ते भगवता अवधीरिता भण्यन्ते । येऽन्येऽपि नियोगिप्रमुखाः राज्ञाऽपरान धेऽवही(धी)रिताः निगोदप्रायेषु गुप्तिगृहेषु शृङ्खलाबद्धा एव स्युः ॥ ३३ ॥ चि० अ०-अवही०। हे प्रभो ! त्वयाऽवधीरिताः-अवगणिताः सत्त्वाः अनन्तकालं-अनन्तान पुद्गलपरावर्तान् नयन्ति । निगोदरूपा या संलग्ना एका शृङ्खला तया निबद्धाः । पुनः किम्भूताः ? समम्-एककालमेव कृतौ आहारनीहारौ यैस्तथा । यथा नियोगिनः प्रभुणाऽवगणिता गुप्तगृहेषु निपतिताः शृङ्खलानिगडिताः सार्धकृताहारनीहाराः प्रभूतं कालं गमयन्ति ॥ ३३ ॥ _पू० अ०-त्वया अवगणिताः सत्त्वाः अनन्तकालं प्रस्तावान्निगोदेषु नयन्ति । अवधीरणा च सामग्रीवैकल्येनैव धर्मोपदेशाधभावात्। निगोदरूपा एवैका संलग्ना शृङ्खला तया नियन्त्रिताः । तथास्थितैरेव तद्भवयोग्याहारैः सर्वे युगपदाहारं कुर्वन्ति तत्परिणामे च नीहारमपि, उच्छासनिश्वासयोरुपलक्षणं चैतत् । अन्येऽपि ये नियोगिप्रमुखाः प्रभुणा अवगणिताः स्युस्तेऽपि निगोदप्रायेषु गुप्तिगृहेषु अयःशृङ्खलाबद्धा युगपत्कृताहारनीहाराश्च भूरिकालं गमयन्तीत्युक्तिलेशः ॥ ३३ ॥ ध० अ०-अथ कवि दुःख आविइ जिननूं दर्शन शुभकारीउं बोलइ । हे तपोनिधे! यैर्दुःखैस्तप्तानां देहिनां त्वयि विषये प्रतिपत्तिर्जायते । हे नाथ ! जेहे दुःखि करी तप्ततापाव्या देहीया-प्राणीया रहई ताहरइ विषइ प्रतिपत्ति हुइ । तानि दुःखानि अहं अधर्मकर्मणः फलानि न मन्ये, किन्तु धर्मकर्मण एव फलानि मन्ये । ते दुःख हूं अधर्मकर्म-पापनां फल न मानउं, किंतु धर्मकर्म इजिनां(?) फल मानसं ॥ ३४ ॥ ने० अ०-सम्प्रति दुःखान्यपि शुभकारणानि भगवदर्शने इत्याह-जेहिं । हे तपोनिधे! यैर्दुःखैस्तप्तानां देहिनां परमा-प्रधाना प्रतिपत्ति:-शुभवासना त्वयि, तानि दुःखानि अहमेव शङ्के न भवन्त्येव । किं तत् ? कर्मफलम् । अधर्मफलमेवेति भावः ॥३४॥ १ 'कीबूं' इति क-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314