________________
૧૮૮ अवचूरिचतुष्टयसमेता
[श्रीधनपाल ध० अ०-अथ कवि जिननई अवहेलिई जीव दुक्ख देषई ते वात बोलई। हे स्वामिन् ! त्वया अवहेलिता-अवज्ञाताः सत्त्वा निगोदैकशृङ्खलाबद्धाः सन्तः अनन्तं कालं नयन्ति-गमयन्ति । हे स्वामी ! तई अवहेल्या-अवगण्या सत्त्व-प्राणीया निगोदनी एक सांकलं बांध्या हूंता अनंत काल नीगमई । किंविशिष्टाः सत्त्वाः? समं कृताहारनीहाराः समकाल कृत-कीधउ आहार अनइ नीहार छइ ॥ ३३ ॥
ने० अ०-भगवदग्रे दुःखकथनद्वारेण स्तुतिमाह-अ० । हे प्रभो!-स्वामिन् ! त्वया अवधीरिता-अवज्ञाता अवगणिताः सत्त्वाः-प्राणिनः नयन्ति-गमयन्ति कालं अनन्तम् । किंविधाः सन्तः ? निगोदैकशृङ्खलाबद्धाः-क्रोडीकृताः। यद्वा पुनः कीदृशाः ? समम्-एककालं कृतावाहारनीहारौ यैस्ते । अनन्तकालं-अनन्तानन्तपुद्गलपरावर्तान् नयन्ति-गमयन्ति ।।
ननु भगवतः किं समस्तावज्ञाकारणं सत्त्वेषु येनेदमुच्यते ? नैवम् । परं ये कलुषितगात्रा: भगवन्तं नावलोकयन्ति ते भगवता अवधीरिता भण्यन्ते । येऽन्येऽपि नियोगिप्रमुखाः राज्ञाऽपरान धेऽवही(धी)रिताः निगोदप्रायेषु गुप्तिगृहेषु शृङ्खलाबद्धा एव स्युः ॥ ३३ ॥
चि० अ०-अवही०। हे प्रभो ! त्वयाऽवधीरिताः-अवगणिताः सत्त्वाः अनन्तकालं-अनन्तान पुद्गलपरावर्तान् नयन्ति । निगोदरूपा या संलग्ना एका शृङ्खला तया निबद्धाः । पुनः किम्भूताः ? समम्-एककालमेव कृतौ आहारनीहारौ यैस्तथा । यथा नियोगिनः प्रभुणाऽवगणिता गुप्तगृहेषु निपतिताः शृङ्खलानिगडिताः सार्धकृताहारनीहाराः प्रभूतं कालं गमयन्ति ॥ ३३ ॥ _पू० अ०-त्वया अवगणिताः सत्त्वाः अनन्तकालं प्रस्तावान्निगोदेषु नयन्ति । अवधीरणा च सामग्रीवैकल्येनैव धर्मोपदेशाधभावात्। निगोदरूपा एवैका संलग्ना शृङ्खला तया नियन्त्रिताः । तथास्थितैरेव तद्भवयोग्याहारैः सर्वे युगपदाहारं कुर्वन्ति तत्परिणामे च नीहारमपि, उच्छासनिश्वासयोरुपलक्षणं चैतत् । अन्येऽपि ये नियोगिप्रमुखाः प्रभुणा अवगणिताः स्युस्तेऽपि निगोदप्रायेषु गुप्तिगृहेषु अयःशृङ्खलाबद्धा युगपत्कृताहारनीहाराश्च भूरिकालं गमयन्तीत्युक्तिलेशः ॥ ३३ ॥
ध० अ०-अथ कवि दुःख आविइ जिननूं दर्शन शुभकारीउं बोलइ । हे तपोनिधे! यैर्दुःखैस्तप्तानां देहिनां त्वयि विषये प्रतिपत्तिर्जायते । हे नाथ ! जेहे दुःखि करी तप्ततापाव्या देहीया-प्राणीया रहई ताहरइ विषइ प्रतिपत्ति हुइ । तानि दुःखानि अहं अधर्मकर्मणः फलानि न मन्ये, किन्तु धर्मकर्मण एव फलानि मन्ये । ते दुःख हूं अधर्मकर्म-पापनां फल न मानउं, किंतु धर्मकर्म इजिनां(?) फल मानसं ॥ ३४ ॥
ने० अ०-सम्प्रति दुःखान्यपि शुभकारणानि भगवदर्शने इत्याह-जेहिं । हे तपोनिधे! यैर्दुःखैस्तप्तानां देहिनां परमा-प्रधाना प्रतिपत्ति:-शुभवासना त्वयि, तानि दुःखानि अहमेव शङ्के न भवन्त्येव । किं तत् ? कर्मफलम् । अधर्मफलमेवेति भावः ॥३४॥
१ 'कीबूं' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org