________________
विरचिता] ऋषभपञ्चाशिका.
૧૮૯ चि० अ०-साम्प्रतं दुःखान्यपि सुखकारणानि भवन्तीति दर्शयन्नाह-जेहि तवि० । हे तपोनिधे! यैर्दुःखैस्तापितानां-कदर्थितानां त्वयि विषये प्रकृष्टा प्रतिपत्तिः-शुभवासनाऽजायत, अहं मन्ये तानि दुःखानि अधर्मस्य कर्म-कृतिर्न भवेयुः । यदि पापमूलान्येव स्युस्तदाऽनुरूपांपापानुसम्बन्धिनीमेव धियमुत्पादयेयुः, किन्तु धर्मफलमेवेति ॥ ३४ ॥
पू० अ०-यैर्दुःखैस्तापितानां-कदर्थितानां त्वयि प्रकृष्टा प्रतिपत्तिः-प्रीतिर्जायते, तानि दुःखानि पापसत्कानि न भवन्ति । पुराकृतदुष्कृतवशात् जीवा दुरवस्थां प्राप्नुवन्ति । तत्र च येषां सर्वज्ञे रुचिर्जायते तेषां कथं दुःखान्यधर्मकर्तृकाणि ? (अपि तु नाधर्मकर्तृकाणि) प्रत्युत स्पृहणीयानीत्यर्थः ॥ ३४ ॥
ध० अ०-अथ कवि जिनसेवानूं फल बोलइ। हे नाथ! मम तवैव सेवया ध्रुवं-निश्चितं मोहोच्छेदो भविष्यति, तेन कारणेनाहं नन्दामि-हर्षमनुभवामि। हे नाथ ! मुझ रहई ताहरी सेवा ध्रुव-निश्चिई मोहोच्छेदु केवलज्ञानप्राप्ति हुसिइं तीणं कारणि नंदउं-हर्ष अनुभवउं । यत् पुनस्तत्र मोहोच्छेदेन केवलज्ञाने उत्पन्ने सति त्वं न वन्दनीयः, तेन झिज्झामिहीनो भवामि । पणि जि तीणइं मोहोच्छेदि केवल उपन्नइ हूंतइ मैइं तूं न वांदिवउ तीणई कारणि करी झिज्झउं-हीणउ हउं, एतलई केवलज्ञानी आपण २ माहि नमइं नहिं ॥३५॥
ने० अ०-भगवत्सेवाफलमाह-होही। हे स्वामिन् ! भविष्यति-सम्पत्स्यते मोहच्छेदोमोहविनाशः भ[ग]वतः सेवया-पर्युपासनया ध्रुवो-निश्चित इति नन्दामि-हर्षमनुभवामि । यत् पुनर्न वन्दितव्यो-न वन्दनीयः तत्र मोहोच्छेदे तेन कारणेन झिजामि-खेदं गच्छामि । किमुक्तं भवति ? कविर्धनपालः आत्मन्येव भक्त्यतिशयमाचष्ट इति गुरूपदेशः ॥ ३५॥
चि० अ०-भगवत्सेवाफलमाह-होही । हे स्वामिन् ! भविष्यति-सम्पत्स्यते । किम् ? मोहच्छेदो-मोहविनाशो भवतः पर्युपासनया ध्रुवो-निश्चित इति नन्दामि-हर्षमनुभवामि, यत्पुनस्तत्र मोहच्छेदे सजाते त्वं न वन्दनीयो-न वन्दितव्यः तेन झिजामि-क्षीणीभवामि ॥ ३५ ॥
पू० अ०-तव सेवया मोहस्योच्छेदो भविष्यतीति हेतोर्हषं वहामि, यत् पुनस्तत्र मोहोच्छेदे त्वं न वन्दनीयस्तेन क्षीणो भवामि । त्वया मोहोच्छेदेन मां खपदवीमारोपयिष्यता करिष्यते सुस्वामिधर्मः, मम तु प्रणाममात्रेणापि रहितस्य कृतघ्नत्वं, तथा स्थितिरेव च केवली केवलिनं न नम(ती)ति ॥ ३५ ॥
ध० अ०-अथ कवि जिननां सेवारहित संपद दुःख मानतउ बोलइ । हे नाथ ! तव सेवाविमुखस्य मम याः समृद्धयो भवन्ति ता मा भवन्तु । हे नाथ! ताहरी सेवाविमुख हूंता मुझ रहई समृद्धि-लक्ष्मी हुइ ते मु हु। का इव ? अधिकारसम्पद इव । यथा अधिकारसम्पदः पूर्व सुखदाः पर्यन्ते विडम्बनफला एव भवन्ति । कुणनी परिइं? अधिकारीयानी
तव' इति ख-पाठः । २ 'तीणि' इति ख-पाठः। ३ 'तउं' इति ख-पाठः। ४-६ 'मोह'स्थाने 'मोहो' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org