________________
૧૯૦ अवचूरिचतुष्टयसमेता
[श्रीधनपालसंपदनी परिई । जिम अधिकारीया व्यापारीयानी संपद पहिलउं सुखदायिनी पर्यंति-छेहडइ विडंबनफलजि हुई ॥ ३६॥
ने० अ०-भगवत्सेवाविमुखसम्पदा दुःखहेतुत्वमाह-जा० । हे भगवन् ! या भगवत्सेवाविमुखस्य-तव पर्युपासनापराअखस्य भवन्तु सम्पदः ता मम समृद्धयः-सम्पदः मा भवन्तु । यतोऽधिकारसम्पद इव-नियोगलक्ष्म्या इव पर्यन्ते विडम्बनफलं यासां ताः तथा अपमानदुःखदाः॥३६॥
चि० अ०-अथ जिनानुरागेण सम्पदोऽप्यवगणयन्नाह-जा तुह० । यास्तव विमुखस्य गुणस्थानिन इति भावः मम समृद्धयो भवन्ति ता मम मा भूवन् । विशेषणद्वारेण हेतुमाह-किम्भूताः ? पर्यन्ते विडम्बनैव फलं यासां ताः । उपमामाह-अधिकारो-राजनियोगस्तस्य सम्पदस्ता इव ॥ ३६ ॥
पू० अ०-याः त्वत्सेवाविमुखस्य मिथ्यादृष्टेः समृद्धयस्ताः समृद्धयो मा भूवन् मम । यतः पर्यन्ते विडम्बनैव फलं यासां व्यसनासेवनात् दुर्गतिपातहेतुत्वेन । का इव ? अधिकारो-राजनियोगस्ततो याः सम्पदस्ता इव । ता अप्यन्ते राजकोपादिना विडम्बनफलाः स्युः ॥ ३६ ॥
ध० अ०-अथ कवि जिननइं अपूर्व प्रदीपर्पणउं प्ररूपतउ बोलई । हे नाथ ! दीपः पूर्व तमः-अन्धकारं भित्त्वा जनस्य पदार्थान् घटादीन् प्रकटयति । हे नाथ ! दीवउ पहि. लउं तम-अन्धकार भेदी जन-लोक रहई पदार्थ-घटादिक प्रकासइ । जगदेकदीपस्य तव पुनः विपरीतमिदं निवर्तितं-सञ्जातम् । पूर्व पदाथोन प्रकाश्य पश्चात् तमो भिनत्सि। जग रहइं प्रदीप समान तुझ रई ए उं विपरीत हूओ जेह कारण तउं पहिलउ उपदेशि पछइ तम-पाप भेदइ ॥ ३७॥
ने० अ०-इदानी भगवतः प्रदीपत्वख्यापनमुखेन स्तुतिमाह-भित्तू० । हे देव!-स्वामिन् ! दीपः-प्रदीपः तमः-अन्धकार भित्त्वा-तिरस्कृत्य पदार्थान्-घटपटादीन् जनस्य-लोकस्य प्रकटयति । तव पुनर्वैपरीत्यमिदं पूर्वोक्तं निर्वर्तितं-सञ्जातं यस्मात् प्रथमं पदार्थान् प्रकाश्य पश्चात तमो भिनत्सि । किंविधस्य ? जं (यत) तव जगदेकदीपस्य-भुवनाद्वितीयदीपस्य ॥ ३७॥
चि० अ०- प्रभोरद्भुतचरित्रमाह-भित्तूण तुमं० । हे देव! दीपः-प्रदीपस्तमो भित्त्वातिरस्कृत्य जनस्य यद्यर्थिनः पदार्थान् प्रकटयति, तव पुनर्जगदेकदीपस्य पदं विपरीतं व्यूढम् । अयमाशयः-दीपो हि तमो भित्त्वा वस्तूनि व्यञ्जयति, त्वं तु पूर्व स्वोपदेशेन भव्यजन्तुजातस्य ...दं. 'जीवादिपदार्थान् प्रकटयसि, ततस्तस्य तमः-अज्ञानं भिनत्सि । अहो तव सर्वातिशायि चरित्रम् ॥ ३७॥
पू० अ०-अन्यो दीपस्तमः-अन्धकार भित्त्वा घटादीन् पदार्थान् प्रकटयति, तव पुनः केवलालोकप्रकाशकत्वेन जगदेकदीपस्य इदं दीपकार्य विपरीतं निष्पतितं-नियूँढम् । त्वं तु पूर्व स्वोपदेशांशुभिर्भव्यानां जीवादिपदार्थान् प्रकटयसि-अवबोधयसि ततस्तत्त्वावबोधोत्पादनेनैव तमः-अज्ञानं भिनत्सि ॥ ३७ ॥
'पणू प्ररुपतु' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org