________________
विरचिता] ऋषभपञ्चाशिका.
૧૯૧ ध० अ०-अथ कवि जिनवचनरूप मत्रनूं प्रमाण बोलइ । हे नाथ! यदि तव वचनमन्त्रस्य कीर्तनमपि कर्णे कामति-प्रविशति, तदा मिथ्यात्वविषप्रसक्ता जीवाः सचेतनाः किं न भवन्ति ? । हे नाथ ! जेइ ताहरा वचनमन्त्र तण कीर्तनइ कर्णि-कानि पइसइ तु मिथ्यात्वविषइ प्रसक्त जीव सचेतन किस्यूं न हुई ? अपि तु हुई जि। जिम विषव्याप्त कोएक जीव भलई सप्रत्यय मन्त्रि निर्विष हुइ, तिम मिथ्यात्व व्यापइ जीव जिननइ वचनि मिथ्यात्व रहित हुइ ॥ ३८ ॥
ने० अ०-भगवद्वचो मत्रशक्तिविधानेन स्तुतिमाह-(मिच्छ० )। हे जिन ! स्वामिन् ! यदि त्वद्वचनमत्रस्य कियदपि-स्तोकमपि पदमात्रमपि कर्णे कामति-प्रविशति, तदा ते जना मिथ्यात्वविषप्रसुप्ता विगलितसंविदः सचेतनाः-चैतन्ययुक्ताः किं हेयोपादेयबुद्धयो न स्युः? अपि तु भवन्त्येव, चिलातीपुत्रादिवत् । यथा कश्चिज्जीवो विषेण व्याप्तो-विषमूर्च्छितस्तत्कणे गारुडमत्रस्य जापेन सचेतनो भवति, तथा मिथ्यात्वविषग्रस्तो जीवो भगवद्वचनेन मिथ्यात्वविषरहितो भवति ॥ ३८॥
चि० अ०-जिनवचनस्यैवातिशयमाह-मिच्छत्त० । हे जिन ! जीवा मिथ्यात्वविषप्रसुप्ता-विपरीतार्थश्रद्धानगराघाताः सचेतनाः समस्तहेयोपादेयादिविचारचतुराः किं न भवन्ति ? भवन्त्येव; यदि कर्णयोः कियन्मात्रमपि-पदमात्रमपि कामति-प्रविशति । कस्य ? तव वचनंद्वादशाङ्गं प्रवचनं तदेव रागादिविषदलनकलितत्वेन मन्त्र इव मन्त्रस्तस्य ॥ ३८॥
पू० अ०-मिथ्यात्वमेव विषं तेन प्रसुप्ता-विगलितसंविदो जनाः किं सचेतना न स्युः ? स्युरेव । चिलातीपुत्रादिवद् , यदि तेषां कर्णे त्वत्सिद्धान्तमन्त्रस्य कियन्मात्रं-पदमात्रमपि प्रविशति । अन्येऽपि ये विषमूर्छितास्तत्कणे गारुडमन्त्राक्षरद्वयत्रयपतने सचेतनाः स्युरेव ।। ३८ ॥
ध० अ०-अथ कवि जिननइं आगमि रह्या दृढपणा ऊपरि वात बोलइ। हे नाथ! ये परसमया आकर्णिता क्षणार्धमपि त्वयि स्थिरं-निश्चलं कुर्वन्ति । हे स्वामी ! जे परसमयअन्य मतीना आगम आका -सांभळ्या हूंता क्षण एक मन ताहरइ विषइ स्थिर-निश्चल करई । तथापि त्वत्समयज्ञानां ते परसमया मनो न हरन्ति । तथापि ताहरा आगमना जाण तीहना मन ते पर समइ आह्वाद न जि पामई ॥ ३९ ॥ . ने० अ०-आय० । ये परसमयाः-कुतीर्थिकागमा बौद्धादिसिद्धान्ताः आकर्णिताः-श्रुताः क्षणार्धमपि-स्तोककालमपि त्वयि स्थिरं अनुरागं-बहुमानं कुर्वन्ति-निष्पादयन्ति, तथापि ते समयाः मन:-चित्तं न हरन्ति-नाह्लादयन्ति । केषाम् ? त्वत्समयज्ञानां-भवत्सिद्धान्तवेदिनां, निश्चलचित्तानां त्वयीति भावः ॥३९॥
चि० अ०-जिनसमयस्यैव परसमयेभ्यो भङ्गयन्तरेण गौरवमाह-आयण्णिा०। परे-कपिलादयः तेषां समयाः-सिद्धान्ताः क्षणार्धमपि-स्तोककालमपि आकर्णिताः-श्रुतिपथमवतारिताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org