________________
૧૯૨
अवचूरिचतुष्टयसमेता
[ श्रीधनपाल
- त्वयि विषये स्थिरमनुरागम् - अन्तःप्रीतिं कुर्वन्ति, तथापि एवं सत्यपि त्वत्समयज्ञानां पुंसां मनो न हरन्ति - न प्रीणयन्ति, नावर्जयन्तीति । अयमाशयः - ते हि परसमया यदि क्षोदक्षमाः स्युः, तदा श्रोतुश्चेतांसि अनुरञ्जयन्तीति, न च तथाविधाः श्रूयमाणास्त्वनुरागं जनयन्ति ॥ ३९ ॥
पू० अ० - ये परसमयाः - कुतीर्थिकागमाः क्षणार्धमप्याकर्णितास्त्वयि स्थिरमनुरागं कुर्वन्ति । तथापि ते तव समयज्ञानां मनो न हरन्ति परस्परासम्बद्धत्वेन फल्गुत्वात्, यथा यथा श्रूयन्ते तथा तथा यथार्थाभिधायिनि त्वयि प्रीतिं जनयन्ति इति स्थाने ॥ ३९ ॥
ई 3 法 ॐ
ध० अ० - अथ कवि जिनना नयनु प्रभावु बोलइ । हे नाथ ! तव नयाः वादिभिः परिगृहीताः अन्योन्यसंलग्नाः क्षणेन प्रतिपक्षं विमुखं कुर्वन्ति । हे स्वामी ! ताहरा नैगम १ संग्रह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढ ६ एवंभूत ७ रूप ए सात नय वादीवचनकुशलीए परिगृहीत- परिवरिया अन्योन्यहं संलग्न - मिल्या हूंता क्षण एक माहि प्रतिपक्ष - अन्य वादी विमुख - ऊपराठउ करई । के इव ? महागजा इव । यथा महागजा वाजिभिः - तुरङ्गमैः परिवृताः सन्तोऽन्योन्यसंलग्ना भवन्ति । कुणनी पैरिई ? महागजेंद्रनीं परिइं, जिम महागजेन्द्र वाजी-घोडे परिवर्या हूंता अन्योन्यई - परस्परई संलग्न - मिल्या अन्य मती एकेक नय जि एकांत मानइ जैन सातइ नय अनेकांति - स्याद्वादिइं मानहं ॥ ४० ॥ ने० अ०- इदानीं नयप्रभावं प्रतिपादयन् स्तुतिमाह - वाई० । हे नाथ ! तव नया: - नैगमादयः क्षणेन - स्तोककालेन प्रतिपक्षं विमुखं पराङ्मुखं कुर्वन्ति । के इव ? महागजा इव - प्रधानद्विपा इव । किंविधा नयाः - किंविधा गजा इति विश्लेषमाह - वादिभिः - वचनकुशलैः परिगृहीता :परिवारिताः अङ्गीकृताः । महागजास्तु वाजिभिः - तुरङ्गमैः । तथा अन्योन्यं - परस्परं संलग्ना - मिलिताः मिथः सापेक्षास्तेन एककार्यकरणप्रवीणाः । एकाकिनो नयास्तु निरपेक्षत्वाद् दुर्नया एव स्युः । यतः कैश्चिदयःशलाकाकल्पा नया अभ्युपगमिता - आश्रिताः । जैनैस्तु सर्वनय समूहमयं जिनमतं प्रतिपन्नम् | के इव ? महागजा इव । किंविधाः । वाजिभिः कृतपरिक्षेपाः ॥ ४० ॥
चि० अ० - वाईहिं० । हे नाथ ! तव नया-नैगमादयो वादिभिः परिगृहीताः स्वपक्षव्यवस्थापनेन परापक्षाव" " प्रयुक्ताः प्रतिपक्षं- कुतीर्थिसार्थसार्थ विमुखा विगलितप्रतिभत्वेन वादकथापराङ्मुखं क्षणेन-स्तोककालमभूताः कुर्वन्ति । किम्भूताः ? अन्योन्यसंलग्नाः - परस्परसापेक्षत्वेनैककार्यकारणप्रवणाः । एकाकिनस्तु अवधारणप्रवणा दुर्नया एव । उपमामाह- के इव ? महागजा इव । यथा महागजा-भद्रजातीयदन्तिनो विपक्षाणां अनीकं हेलयैव प्रवृत्ताः पञ्चान्मुखं क्षिपन्ति । कीदृशाः १ वाजिभिः - अश्वैः परिगृहीता इत्यर्थः ॥ ४० ॥
पू० अ० - तव नैगमादिनयाः · · · वादिभिः स्वपक्षव्यवस्थापनेन परपक्षविक्षेपाय प्रयुक्ताः क्षणाद् विपक्षं विमुखं कुर्वन्ति । वाजिभिः कृतपरिक्षेपाः ॥ ४० ॥
32 SA ॐ
१ 'परिं' इति क- पाठः ।
Jain Education International
竑
For Private & Personal Use Only
www.jainelibrary.org