________________
विरचिता] ऋषभपश्चाशिका.
૧૯૩ ध० अ०-अथ कवि स्वामीना सिद्धान्त विदुरपणउं बोलइ । हे नाथ ! यैर्वचनैरसमञ्जसा अपि परसमयाः कीर्तिमाप्नुवन्ति । हे स्वामी! जेहे वचने असमञ्जस-असंबद्धइ पर समय कीर्ति पामइ । तत् (तानि?) त्वत्समयमहोदधेर्मन्दा बिन्दुनिस्यन्दाः-बिन्दुलवा वर्तन्ते । ते ताहरा समय-सिद्धान्त समुद्र आगलि मन्दा बिन्दुलवा वर्तई ॥४१॥
ने० अ०-भगवत्सिद्धान्तोदधेः परसमयानां विभुत्वमाह-पा० । यैः कैश्चन वचनैःवचोभिग्रहचारचन्द्रादित्योपरागादिज्ञानरूपैर्यशः-कीर्ति प्राप्नुवन्ति परसमयाः असमञ्जसा अपिअघटमाना अपि, तेऽपि (तान्यपि?) त्वत्समयमहोदधेर्मन्दा-अप्रकृष्टा अपि बिन्दुनिस्सन्दा-बि. न्दुलवाः । जिनमतव्यतिरेकेणान्यद् नास्ति किञ्चिज्ज्ञानमिति भावः ॥४१॥
चि० अ०-पावंति० । परसमया असमञ्जसा अपि-विसंस्थुलत्वेन अघटमाना अपि यैर्वचनैर्ग्रहृचारचन्द्रोपरागादिपरिशानरूपैर्जने यशः-श्लाघारूपं प्राप्नुवन्ति, तानि वचनानि तव समयमहोदधेर्मन्दा-अल्पविषयत्वेन अल्पप्रकाशका बिन्दुनिस्यन्दा-बिन्दुलवाः शीकरा इत्यर्थः । अत्र प्राकृतत्वात् नपुंसकस्यापि पुंल्लिङ्गनिर्देशः । इदमत्र हृदयम्-जिनमतव्यतिरेकेण किश्चिन्न ज्ञानमस्तीति ॥ ४१ ॥
पू० अ०-विसंस्थुला अपि परसिद्धान्ता यैर्वचनैश्चन्द्रसूर्योपरागादिरूपैः श्लाघां लभन्ते, तानि च वचनानि मन्दानि-अल्पविषयत्वेन स्तोकप्रकाशकानि, अतः श्रुतमहोदधेनिजलविग्रुषां शीकराणीव । अयमाशयःश्रुतकेवलिनो असङ्ख्येयभवान् जीवानां प्रतिपादयन्ति त्वत्समयपारगाः । तत्पुरो ग्रहोपरागादिज्ञानप्रकाशकं यत्किञ्चिदेतत् ॥ ४१॥
ध० अ०-अथ कवि प्रवहणनइ दृष्टान्त(इं) सर्वज्ञई मूक्या जीवनइं विडंबना हेतुफल बोलइ । हे नाथ ! त्वयि मुक्तैः सति जीवैः पोत इव संसारसमुद्रे विविधा विडम्बनाः प्राप्ताः। हे नाथ ! तई मूक्यई हूई तई जीवे पोत-प्रवहणनी परिइं संसाररूपीया समुद्र माहि विविध-नाना प्रकार दारिद्यदोहलिदुःखच्छेदनभेदनवेदनादि दुःख पाम्या । किंवि० जीवैः? अनुवेलं आपगामुखपतितैः । वेल वेल पूठि आपदरूपिणी आपगा-नदी मुखि पड्या छई। जिन प्रवहण मूंकिई संसारिसमुद्रि विडंबना जि पामीइ ॥ ४२ ॥
ने० अ०-साम्प्रतं दृष्टान्तेन भगवति मुक्ते विडम्बनाद्वारेण स्तुतिमाह-पइं० । हे नाथ ! त्वयि मुक्ते पोत इव जीवैर्भवार्णवे प्राप्ताः-लब्धा विडम्बनाः-कदर्थना विविधा-दारिद्यादिप्रकाराः । किम्भूतैः ? आपन्मुखपतितैः । कथम् ? अनुवेलम् , एकत्र वेलं-कल्लोलमाश्रित्य अन्यत्र वारंवारम् । यथा कश्चित् पुरुषः पोते मुक्ते आपगा(मुखे)-नदीमुखे पतितः अनुवेलं विडम्बनां प्राप्नोति, तथा जीवैरपि संसारे त्वयि मुक्ते प्राप्ता इति गर्भः ॥ ४२॥ चि० अ०-अथ त्वां प्राप्यापि दुष्कर्मवशगास्त्यजन्ति तेषां गतिमाह-पई मुक्के० । जीवैर्वि, 'दुक्ख' इति ख-पाठः । २ 'मूक्यिई' इति ख-पाठः ।
ઋષભ૦ ૨૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org