________________
विरचिता ]
૧૮૭
ने० अ० - अधुना भगवदुक्तक्रियादुष्करताकथनेन स्तुतिमाह — ली० । हे नाथ ! यथा अन्यदेवा - हरि-हरादयस्तीर्थिका लीलया नयन्ति मोक्षं, तथा न त्वम्; कष्टसाध्यत्वात् क्रियाऽनुष्ठानस्य । यद्यप्येवं तथापि तव मार्गलग्नाः - तव मार्गस्थिता मृगयन्ते - निन (भा) लयन्ति बुधाः - अवगततच्चाः । निन्दाद्वारेण स्तुतिरियम् ॥ ३१ ॥
चि० अ० - अथ जिनप्रवचनस्यैव विदुषां विशेषोपादेयत्वमाह-लीलाइ० । हे नाथ ! यथा अनायासेन अन्ये- हरि-हरादिसम्बन्धिनस्तीर्थिकाः मोक्षं नयन्ति, तथा न त्वम् ; कष्टसाध्यत्वात् तव क्रियानुष्ठानस्य । तथाप्येवं सत्यपि तव ज्ञानादिरूपो मोक्षमार्गस्तत्र लग्नाः- तत्र स्थिताः शिवशर्माणि मृगयन्ते बुधाः ॥ ३१ ॥
पू० अ० - यथाऽन्ये सौगतादयस्तीर्थिका लीलया "भृंद्वी शय्या प्रातरुत्थाय पेया" इत्याद्यनुष्ठानेन मोक्षं प्रापयन्ति तथा नवम् । तथापि तव मार्गे ज्ञानादिस्तत्र लग्ना विबुधाः शिवसुखानि मृगयन्ते ॥ ३१ ॥
ऋषभपञ्चाशिका.
श्र 332 और 竑
1
ध० अ० - अथ कवि जिनदर्शन माहात्म्य तणी स्तुति बोलइ । हे जिन ! त्वयि दृष्टे जीवाः संसारफलके बन्धवधमरणभाजो न भवन्ति । किंवि० जीवाः ? अक्षैः - इन्द्रियैर्हि - यमाणाः । अक्ष - इंद्रिए हरीता छई । का इव ? सारा इव । यथा साराः अक्षैः - पाशकैः फलके हियमाणाः । पगडे दृष्टे सति बन्ध-वध-मरणभाजो न भवन्ति । जिम सारडां अक्ष-पासे फलक-पाटीइ हरीतां पगडई दीठई हूंतइ बंधवधमरणभाजिया न हुई तिम हे स्वामी ! जीवरुपीयां सारडां संसाररूपीया फलक-पाटीयां माहि इंद्रियरूपीए पासे हरीता हूंता ताहरा शासनरूपीई पगडई दीठई बंधवधमरणभाजीयां न हुई ||३२||
ने० अ० – साम्प्रतं भगवद्दर्शनमाहात्म्यद्वारेण स्तुतिमाह — सा० । हे जिन ! त्वयि दृष्टे जीवाः संसारफलके बन्ध-वध-मरणभाजो न भवन्तीति योगः । अक्षैः - इन्द्रियैः हियमाणा अपि । का इव ? सारा इव । कोऽर्थः ? यथा साराः अक्षैः पाशैः फलके प्रतीते हियमाणा बन्ध-वध-मरणभाजो भवन्ति तन्न, तथा जीवास्त्वयि दृष्टे इति भावः ॥ ३२ ॥
चि० ० अ० - साम्प्रतं भगवद्दर्शने माहात्म्यद्वारेण स्तुतिमाह — सारि घ० । हे जिन ! त्वयि दृष्टेऽमी जीवा बन्ध-वध- मरणभागिनो न भवन्ति । किम्भूताः ? अक्षैः - इन्द्रियैः, अपिशब्दस्य निमत्वाद् हियमाणा अपि । क्व ? संसार एव चतुरन्तत्वात् फलकं तस्मिन् । का इव ? शारय इव । इयं च वैधर्म्यापमा । यथा शारयः काष्ठादिमय्योऽक्षैः - पाशकैः फलके हियमाणा - इतस्ततः सञ्चार्यमाणाः । कैतवप्रसिद्धानि प्राप्नुवन्ति ॥ ३२ ॥
I
पू० अ० - संसार एव चतुरन्तत्वात् फलकस्तत्र त्वयि देवतत्त्वबुद्ध्या दृष्टे जीवा बन्धादिभागिनो न भवन्ति । अपिशब्दस्य भिन्नक्रमत्वादक्षैः - इन्द्रियैर्हियमाणाः - सञ्चार्यमाणाः सारयो यथा बन्ध-वध-मरणानि प्रतीतानि न भजन्ते पदे दृष्टे ॥ ३२ ॥
300 32
१ प्रेक्ष्यतां ९५तमं पृष्ठम् ।
Jain Education International
ॐ 30
For Private & Personal Use Only
www.jainelibrary.org