________________
૧૮૬ अवचूरिचतुष्टयसमेता
[श्रीधनपालप्रस्तावात् कर्मभिः, सारणिजलमिव-यथा कुल्याजलं तडागादपवाहितं सकलासु वृक्षजातिषु भ्राम्यति स्थानेषु स्थानेषु आलवालेषु बध्यमानं एकस्मिन् पूरिते अन्यत्र संसरणाय ॥ २९॥
ध० अ०-अथ कवि स्वामीनूं शासन आदरिई जिस्यूं फल अनइ मूकई जिस्यूं ( दोष ) तेह उपरि स्तुति बोलइ । हे नाथ! जीवाः सलिल इव तव प्रवचने गृहीतेअङ्गीकृते ऊर्ध्वं ब्रजन्ति । हे नाथ ! पाणीनी परिइ ताहरउं शासन आदरिइं जीव ऊर्ध्व पहुता-देवलोक ग्रैवेयका-ऽनुत्तरादिके जाई। तु-पुनः शासने आहत्य मुक्ते सति अधोनरकादिषु व्रजन्ति । शासन आदरी मूकिइ हूंतइं अधो-नरकादिके जाई। किं० जीवाः? कूपारघट्टघटीसंनिभाः। कूआ- अरघट्ट घडिनी दृष्टांत सरीषा छइ कूइ जे घडी पाणी भरी ते उपहरी जाई; जे पाणी भरी नई मूंकइ ते नीची जाई ॥ ३०॥
ने० अ०-भगवत्प्रवचनगृहीतमुक्तगुण (दोष)कथनमुखेन स्तुतिमाह-सलि० । हे नाथ! सलिल इव प्रवचने तव सत्के आचारादिभेदभिन्ने त्वदाज्ञारूपे गृहीते-कक्षीकृते ऊर्ध्व-स्वर्गादौ गच्छन्ति, विमुक्ते तु अधोभागे-नरकादौ व्रजन्ति जीवाः । किंविधाः ? कूपारघट्टघटीसनिभाः। यथा कूपारघट्टघटा(व्यः) जलं गृह्णन्ति तदा ऊर्ध्वं व्रजन्ति ये (याः) च न गृह्णन्ति ते (ताः) अधो यान्ति, तथा जीवा अपीति भावः ॥ ३० ॥
चि० अ०-अथान्वयव्यतिरेकाभ्यां जिनप्रवचनाङ्गीकारपरिहारयोः फलमाह-सलिल व० । तव प्रवचने सलिल इव गृहीते-अङ्गीकृते शान-श्रद्धा-ऽनुष्ठानैः सम्यगासेविते सति जीवा ऊर्ध्वस्वर्गादौ गच्छन्ति, विमुक्ते त्वधः-'सीमन्ता'दौ ब्रजन्ति । किम्भूता जीवाः ? कूपारघट्टघटीतुल्याःकूपारघट्टघट्यः; या जलं गृह्णन्ति ता ऊर्ध्व व्रजन्ति याश्च मुञ्चन्ति ता अधो ब्रजन्ति, तथा जीवा अपि ॥ ३० ॥
पू० अ०-तव प्रवचने गृहीते-सेविते ऊर्ध्व-स्वर्गादिषु यान्ति । तस्मिन्नेव वैपरीत्येन विमुक्ते अधोनरकादिषु व्रजन्ति । उपमामाह-कूपारघट्टघटीमालातुल्याः, सलिले गृहीते विमुक्ते च यथा ताः सलिले गृहीते कूपस्योपरितनं प्रदेशं यन्त्रप्रयोगात् प्राप्नुवन्ति, त्यक्ते च जले अधः कूपस्यैव व्रजन्ति ॥ ३० ॥
ध० अ०-अथ जिनोक्तक्रियादुष्करपणूं कहिवइ करी स्तुति बोलइ । हे नाथ ! यथा अन्ये तीर्थिनो हरि-हरादयो लीलया मुक्तिं नयन्ति-प्रापयन्ति, तथा त्वं न प्रापयसि । हे स्वामी ! जिम अन्य तीर्थी हरि-हरादिक लीलाई मुक्ति दिई तिम तूं न दिअं, क्रियानुष्ठान तणी कष्टसाध्यपणा तउ । तथापि तव मार्गलग्नाः बुधाः शिवसौख्यानि मृगयन्ते । तथापि ताहरइ मार्गि लागा बुध-विद्वांस क्रियाकलाप तपोऽनुष्ठानि करि दोहिलाइ शिव-मोक्ष तणां सुख पामई ॥ ३१॥
१'उपरा' इति ख-पाठः। २'भरइंट' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org