SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ विरचिता] ऋषभपश्चाशिका. चि० अ०-अधुना भगवञ्चरणशरणविधानेन स्तुतिमाह-पञ्चल । हे नाथ! भवारण्येसंसारकान्तारे भीतानां देहिनां तवैव चरणौ-पादौ शरणं-त्राणस्थानं भवतः, नान्यस्य । कीदृशे ? प्रत्यलकषायचौरे । किंविधौ इत्याह-सदा-नित्यं सन्निहिताः-समीपवर्तिनोऽसिचक्रधनूरूपा रेषा ययोस्तौ तथा । यथा प्रत्यलचौरेऽरण्ये आयुधवन्तः शरणं भवन्ति, तथा भगवञ्चरणावपि ॥ २८ ॥ पू० अ०-भवारण्ये भीतानां भविनां भवच्चरणौ एव शरणं भवतः । भव० किं० ? प्रत्यलाः कषाया एव चौरा यत्र । चरणौ किं० ? सदा सन्निहिता असिचक्रधनूरूपा रेखा ययोः (तौ) ॥ २८ ॥ ध० अ०-अथ कवि जिननई सिद्धान्तई दीठा दोष कहिवा स्तुति बोलइ। हे नाथ! तव समयसरोभ्रष्टा जीवाः सकलासु रूक्षजातिषु भ्रमन्ति । हे नाथ ! ताहरा समय-सिद्धांतरूपीया सरोवर, भ्रष्ट जीव सकल-समस्त रुक्ख जाति-नरक तिर्यच प्रमुख हीन जातिई फिरई। किं० जीवाः? बध्यमानाः कर्मणा। कर्मिई करीनइ बध्यमान-बांधीता छइ।किमिव ? सारणिजलमिव-यथा सारणिजलं स्थानस्थानेषु-आलवालादिषु वध्यमानं सत् सकलासु वृक्षजातिषु भ्रमति । कुणनी परिइं? सारणि-नीकना जलनी परिइं। जिम नीकनूं जल स्थाने स्थाने-स्थानकि २ बांधी हूंतूं समस्त वृक्षजातिनइं विषइ फिरइ ॥२९॥ ने० अ०-भगवत्सिद्धान्तभ्रष्टदोषकथनेन स्तुतिमाह-तुह० । हे नाथ ! तव समयसरीभ्रष्टा:-भवसिद्धान्ततडागविकला जीवा भ्रमन्ति-पर्यटन्ति वृक्षजातिषु । किमिव ? सारणिजलमिव-कुल्यावारीव । ८४लक्षमानस्थानेषु नारकादिभेदभिन्नेषु प्रबध्यमानाः, प्रस्तावात् कर्मभिः। यथा सरोभ्रष्टं सारणिजलं सर्ववृक्षजातिषु भ्रमति स्थानस्थानेषु आलवालेषु बध्यमानं, तस्येव जीवा अपि तव आगमभ्रष्टा नरकादिषु भ्रमन्तीति भावः ॥ २९ ॥ चि० अ०-भगवत्सिद्धान्तभ्रष्टदोषकथनमुखेन स्तवमाह-तुह समय० । ये तु तामप्याप्तोक्ति श्रुटिवशादासाद्य पुनर्दुष्कर्मनिर्मथिताः त्यजन्ति, तेषां तु का गतिरित्याह-जीवा रूक्षजातिषु भ्राम्यन्तीति योगः । समय एव सरः तस्माद् भ्रष्टा:-बहिर्भूता जीवाः सकलासु-चतुरशीतिलक्षप्रमाणासु जातयो-योनयः पृथ्वीकायाद्याः, रूक्षाः-कर्कशक्लेशविश्राणनपराभूता(ता)सु रूक्षजातिषुएकेन्द्रियादिषु भ्राम्यन्ति। किम्भूताः ? स्थानेषु स्थानेषु-योनिषु योनिषु बध्यमाना-निबिडकर्मभिराश्लिष्यमाणाः । यथा सारणिजलं-कुल्याजलं अगाधतटाकात् केनापि विवरेण बहिर्भूतं चम्पकादिवृक्षजातिषु स्थानेषु स्थानेषु भ्राम्यति-आलवालेषु आलवालेषु बध्यमानमेकस्मिन् पूरिते सञ्चार्यमाणमन्यत्र सञ्चार्यते ॥ २९ ॥ पू० अ०-तव समयः-सिद्धान्तः स एवोपदेशामृतपूरितत्वेन सर इव सरस्तस्माद् भ्रष्टा जीवाः रूक्षजातिषु-रूक्षयोनिषु सकलासु-चतुरशीतिलक्षमितासु भ्राम्यन्ति ठाणठाणेसु-योनिषु योनिषु बध्यमानाः, १ 'पाणाने स्थान.' इति ख-पाठः। * स. २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy