________________
૧૮૪
[श्रीधनपाल
अवचूरिचतुष्टयसमेता विषमौ तुरङ्गमौ भव्यसारथितो(प्रा?)जनके अनः-शकटं उत्पथेन नयन्तौ तिष्ठतः । जिम दुर्दात घोडा भला सारथिनई ता(प्रा?)जणइ दीठई शकटि उन्मार्गि लेयता निवर्तई ॥२७॥
ने० अ०-चचनप्रभावमाह-विस० । हे धर्मसारथे !-धर्मस्यन्दनप्रवर्तक ! तव प्रवचने दृष्टे सति यौ विषमौ रागद्वेषौ तौ नवरं-निश्चितं तिष्ठतः-निवर्ततः । किं कुर्वन्तौ ? नयन्तौ मनः-चित्तं उत्पथेन-उन्मार्गेण । काविव ? तुरगाविव । कोऽर्थः ? यथा विषमौ तुरगौ-दुर्दमौ वाजिनौ प्रधानसारथिनाजनके-तोत्रे दृष्टे उत्पथेन अनः-शकटं नयन्तौ तिष्ठतः-स्वस्थौ भवतः तथा रागद्वेषावपीति भावः ॥ २७॥
चि० अ०-अथ भगवत्प्रवचनमाह-विसमा० । हे धर्मसारथे!-धर्मस्यन्दनप्रवर्तक ! विषमौ रागद्वेषौ ज्ञानाद्यात्मको मोक्षमार्गस्तस्मादितर-उत्पथस्तेन देहिनां मनो नयन्तौ, नवरं-केवलं तवैव प्रवचने दृष्टे सति अवतिष्ठते, न उत्पथे प्रेरयतः । यथा दुर्दान्तौ तुरगौ अनः-शकटं रथमुत्पथे नयन्तौ सारथेः पवयणे-प्राजनदण्डे दृष्टे उत्पथं विहाय पथ्येवावतरतः तद्वदिहापि ॥
पू० अ० हे धर्मसारथे ! तब प्रवचने दृष्टे विषमौ रागद्वेषौ दुर्दान्ततुरगाविव मन उत्पथे नयन्तौ पन्था-ज्ञानाद्यात्मको मोक्षमार्गस्तस्मादितरमार्गे नावतिष्ठते । तन्निवृत्तौ च जीवानां सत्पथप्रस्थानं स्वतः सिद्धमेव । अत्र च धर्मस्य रथत्वमभणितमपि सारथिशब्दोपादानसामर्थ्याद् लभ्यम् , अथवोक्तिः-'निता तुरय व्व उप्पहेणं अणं' ति यथा दुर्दान्तौ तुरगौ अनः-शकटं उत्पथे-अक्षुण्णमार्गे नयन्तौ सारथेः प्राजनदण्डे दृष्टे पथ्येवावतरतस्तद्वदिहापि ॥ २७ ॥
ध० अ०-अथ कवि स्वामीना चरणकमलनूं लक्षण बोलइ । हे नाथ! भवारण्ये भीतानां देहिनां तवैव चरणौ शरणं भवतः, नान्यस्य । हे नाथ ! संसाररूपीया अरण्य माही भीत-बीहता देहीया-प्राणिया नइ ताहरा जि चरणकमल शरण हुई, नही अनेराना चरण । किंवि० भवारण्ये ? प्रत्यलकषायचोरे । प्रत्यल-समर्थ कषायरूपिया चोर छइ जीणं । किं० चरणौ ? सदा संनिहिता असिचक्रधनुषां रेषौ(खा ययोस्तो)। सदा-सर्वदा संनिहित-समीपि असि-खड्ग चक्र धनुषनी रेखा छई जेहे । जिम समर्थ चोरे अटवीमाहि हूंते हथियारना धणी शरणं कीजइ ॥२८॥
ने० अ०-भगवचरणविधाने स्तुतिमाह-पच्च० । हे नाथ ! भवारण्ये-संसारकान्तारे भीतानां देहिनां तवैव चरणौ पादौ शरणं-शरणदौ भवतः, नान्यस्य । कीदृशे संसारे? प्रत्यलाः-समर्थाः ये कषायाः-क्रोधादयस्ते एव चौरा यसिन् , दुःखहेतुत्वात् । प्रत्यलचौरे आयुधवन्तः शरणं-त्राणं भवन्ति तथा भगवचरणावपीति भावः । [भगवत्सिद्धान्तभ्रष्टदोषकथनेन]-किंविधौ इत्याह सदा-नित्यं सन्निहिताः-समीपवर्तिनोऽसिचक्रधनूरूपा रेषा ययोः पादयोस्तथा अरण्ये-वने तथा भगवचरणावपीति भावः ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org