________________
१८० अपरिचतुष्टयसमेता
[श्रीधनपालध० अ०-अथ स्वामीनउ रूपातिशय बोलइ-हे नाथ ! ये तव रूपं पश्यन्तो हर्षपरिपूर्णा न भवन्ति । हे स्वामी! जे जीव ताहरूं रूप जोअतां हरिषि परिपूर्ण हृदय न हुई। ते समनस्का अमनस्काः -स्थावरा एव वर्तन्ते । ते समनस्क-मन सहित छइ अमनस्क-स्था. वर इति वर्तई । परं यदि ते केवलिनो न स्युः। पणि जइ ते केवलज्ञानीया न हुई । एतलई केवलज्ञानीनइ मन न हुई ॥२१॥
ने० अ०-रूपातिशयं वर्णयन् स्तुतिमाह-तुह० । ते-तव (रूपं ) पश्यन्तो न भवन्ति प्राणिनः ये हे नाथ ! हर्षपरिपूर्णाः ते समनस्का अपि गतमनस्का एव, एकेन्द्रिया एवेति भावः; परं ते द्रष्टारो यदि केवलिनो न स्युः । ननु किं समनस्काः केवलिनो भण्यन्ते येनेदमुच्यते । तथाचागमः-"अमनस्काः केवलिनः", सत्यम् , रामणा वित्तिप्राकृतशब्देन तेऽप्युच्यन्ते, इ(अ)तस्तेषां व्युदासः ॥२१॥
चि० अ०-रूपातिशयं वर्णयितुमाह-नुह रूवं० । हे नाथ! तव रूपं पश्यन्तो ये न भवन्ति हर्षपरिपूर्णाः ते समनस्का:-संशिनोऽपि गतमनस्का:-असंशिन एव । किं सर्वेषामियमेव गतिरित्याह-'ते केवलि.' यदि ते केवलज्ञानिनो न भवेयुः। केवलिनस्तु 'समणा वि' श्रमणलिङ्गधारिणोऽपि अमनस्का एव, भावमनोवैकल्येन । क्षीणमोहत्वेन च तेषामद्भुतवस्तुसाक्षात्कारेऽपि हर्षो. त्पत्तेरभाव एव ॥ २१ ॥
पू० अ०-ये प्राणिनस्तव रूपं प्रेक्षमाणा हर्षभरनिर्भरा न स्युः, ते समनस्काः -संज्ञिनोऽपि गतमनस्का:-असंज्ञिन एव, यदि केवलज्ञानिनो न भवेयुः । विरोधश्चात्र-ये समनस्कास्ते कथममनस्काः ? केवलिनस्तु समनस्का अपि भावमनोवैकल्येनामनस्का एव स्युः । क्षीणमोहत्वेन च तेषां तथाविधाद्भुतवस्तुनः सदा साक्षात्कारेऽपि हर्षोत्पत्तेरभाव एव ॥ २१ ॥
ध० अ०-अथ कवि जिनमाहात्म्यनई द्वारि स्तुति बोलइ । हे नाथ ! यैर्गुणैः अन्येहरि-हरादयो देवाः निःसामान्यां समुन्नतिं प्राप्ताः । हे स्वामी ! जेहे गुणे अनेरा हरिहरादिक देवता निःसामान्य-निरुपमान समुन्नति-समृद्धि पाम्या । ते गुणास्तव सङ्कथासु मम हास्यं ददति । ते गुण ताहरी वातानइ विषइ मुझनइं हासुं दिई ॥ २२॥
ने० अ०-भगवद्गुणद्वारेण स्तुतिमाह-पत्ता० । यैर्गुणैरन्यदेवता-हरि-हरादयः समुन्नति-समृद्धिं निःसामान्यां-निरुपमामसाधारणं प्राप्ताः, ते गुणा मम हासं-अवज्ञारूपं ददतिजनयन्ति । कासु ? तव 'गुणसंकहासु' सत्सु तव गुणानां भवदाचर(ण)रूपाणां सम्यक् कथा वर्तमाना(वातो ?)स्तासु ॥२२॥
१ रहई' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org