Book Title: Risht Samucchaya
Author(s): Durgadevacharya, A S Gopani
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 194
________________ THE RISTASAMUCCAYA अथ सप्तदशाष्टौ च रंध्रांतं विलिखेत् क्रमात् । ततः स्वरानषंढांश्च वर्णांश्च ङजणोज्झितान् ॥ २ ॥ अत्राक्षराधः स्थैः स्वैः स्वैरकैः संकलितं भवेत् । वसुभिर्भाजिते शेषे आया ध्वजमुखादयः ॥ ३॥ ध्वजो धूम्रोऽथ सिंहः श्वा सौरभेयः खरो गजः । ध्वांक्षश्चैते क्रमेणैव आयाष्टकमुहाहृतम् ॥ ४ ॥ काकाली श्वा च भवेत्सारमेयाच्च रासभः । बलवान् रासभादुक्षा वृषभादपि कुंजरः ॥ ५ ॥ कुंजरादपि पंचास्यः सिंहादपि बली ध्वजः । ध्वजादपि बली धूम्रम्तथा जातिविशेषतः ॥ ६ ॥ भागहारेण शून्यत्वादष्टमः परिगृह्यते । एकाद्यैः शेषभूतांकेर्ध्वजायाश्चायचक्रमात् ॥ ७ ॥ अथ समरविजयतंत्रे | आयचक्रेति ॥ १ ॥ २ ॥ यथा देवदत्तयज्ञदत्तयोविजयपराजये । देवदत्तनामांक संख्या एकोनपंचाशत् ४९ यज्ञदत्तनामांक संख्या ८४ चतुरशीतिः उभाभ्यां वसुभाजिते शेषे देवदत्तस्यैकं शेषं यज्ञदत्तस्य चत्वारि ४ देवदत्तस्यायो ध्वजः । यज्ञदत्तस्यायः वा ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ आयचक्रमिदं प्रोक्तं यत्सुरैरपि दुर्लभम् । अत्र नामाक्षरादीनां युक्तिरन्या प्रदर्श्यते ॥ ८ ॥ जयाजयपरीक्षायां स्वरोदयपरिश्रितात् । षोडशाक्षरवर्गः स्यात्कादयः पंच वर्णकाः ॥ ९ ॥ चतुश्चतुष्कवर्णौ च यशौ वर्गाः प्रकीर्तिताः । नाम्नि वर्णात्स्वरात् संख्या वर्गवर्णवशाच्च सा ॥ १० ॥ इति आयचक्रम् ॥ व्याख्या | योधस्य नाम्नि ये वर्णाः तेषां संख्या एकत्र कार्या, कथं कार्या तत्राह । वर्गवर्णवशात् । वर्गाणां यावत्संख्यावर्णः तत्संख्या नानि पृथक् ग्राह्या, वर्णानां संख्या एकत्र कार्या तथा नाम्नि ये मात्राखरास्तेषां स्वरवर्गाक्षरसंख्या पृथक् ग्राह्या, स्वरसंख्या द्विगुणा वर्णसंख्या चतुर्गुणा तयोः संख्यांकसंयोगं कृत्वा भागं हरेत् ततः “ सप्तभिर्यौ विशेषांक स्तेनारेरात्मनस्तथा । बलावलं विचार्य स्याद्युद्धावसरवेदिभिः " । तथा च उदाहरणं । देवदत्तस्य दकारस्य त्रि ३ संख्या वकारस्य चत्वारः ४ द्वितीयदकारस्यापि त्रिसंख्या ३ तकारस्यैकं १ वर्णानामेकादश ११ संख्या जाता। अथ स्वराणां संख्या । एकारस्यैकादश संख्या ११ यतः षोडशाक्षरवर्गः । एवं दत्त एषां मात्राखरोऽकारः । तेषां संख्या तिस्रः एवं मात्रावर संख्या जाता चतुर्दश १४ मात्रासंख्या द्विगुणा २८ वर्णसंख्या चतुर्गुणा जाता ४४ तयोः संयोगे जाता संख्या द्विसप्ततिः ७२ ॥ अथ यज्ञदत्तस्य यकारस्यैका संख्या १ गकारस्य त्रि ३ संख्या यकारस्यैका १ दस्य त्रिसंख्या ३ तकारस्यैका १ एवं वर्णसंख्या एकत्र नव ९ तथा यज्ञदत्तनानि वर्णस्वराश्चत्वारोऽकारास्तत्संख्या चत्वारः ४ पृथक् खरसंख्या द्विगुणा ८ वर्णस्वरसंख्या चतुर्गुणा ३६ एवं षटूत्रिंशत् तद्योगे चतुश्चत्वारिंशत् ४४ द्वयोः सप्तभिस्तष्टे शेषांकौ २ उभयोः शेषं द्वितयं गतं २ तत्र बलाबलम् । “साम्येन संधिराधिक्ये तयोहीनतया वधः” । इदं बलाबलम् । अथात्रैव पुनर्विशेषमाह । “ किंचिच्छेषेऽत्र विषमे समे वापि पृथक् भवेत् । विषमे विजयो नूनमाधिक्येऽपि समे परे" । यदि द्वयोः सप्तशेषिते सति द्वयं विषमांक मेवावशिष्यते तदा यस्याधिकं स जयी भवति । द्वयोः समांकेऽवशेषिते सति यस्य हीनांकः 1 Jain Education International For Private & Personal Use Only 81 www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290