________________
98
APPENDIX
खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः। परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ॥ १० ॥ आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः। अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाधुतिस्तथा ॥ ११॥
कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् । ऊर्णनाभेर्यथा चक्रं छिद्रं सोमं प्रपश्यति ॥ १३ ॥ तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् । शवगन्धमुपाघ्राति सुरभि प्राप्य यो नरः ॥१४॥ देवतायतनस्थस्तु सप्तरात्रेण मृत्युभाक् । कर्णनासावनमनं दन्तदृष्टिविरागिता ॥ १५॥
(XII. (शांतिपर्व), 317th Adhyaya ; p. 643) V. From VP :वायुरुवाच
बध्येद्वायसपतीभिः पांशुवर्षेण वा पुनः । छायां वा विकृतां पश्येचतुः पञ्च स जीवति ॥ ७॥
अप्सु वा यदि वाऽऽदर्श आत्मानं यो न पश्यति । अशिरस्कं तथाऽऽत्मानं मासादूर्ध्व न जीवति ॥९॥
xxx (*यस्य वै स्नातमात्रस्य हृत्पादं वाऽवशुष्यति । धूमो (मं) वा मस्तकान्नश्ये (त्पश्ये) दशाहं न स जीवति)॥ ११ ॥
भूयो भूयः श्वसेद्यस्तु रात्रौ वा यदि वा दिवा । दीपगन्धं च नो वेत्ति विद्यान्मृत्युमुपस्थितम् ॥ २१ ॥
xxx मुक्तकेशो हसंश्चैव गायनृत्यंश्च यो नरः । याम्याशाभिमुखो गच्छेत्तदन्तं तस्य जीवितम् ॥ २५ ॥ द्वे चात्र परमे रिष्टे एतद्रूपं परं भवेत् । घोषं न शृणुयात्कणे ज्योतिर्नेत्रे न पश्यति ॥ २८ ॥
ऊर्ध्वा च दृष्टिन च संप्रतिष्ठा रक्ता पुनः संपरिवर्तमाना । मुखस्य चोष्मा शुषिरा च नाभिरत्युप्णमूत्रो विषमस्थ एव ॥ ३० ॥
(19th Adhyaya; pp. 49-51) VI From MatP :३१ मत्स्य उवाच
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः। दिव्यान्तरिक्षभीमानामुत्पातानां च दर्शनम् ॥ ९ ॥
शसूययाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org