Book Title: Risht Samucchaya
Author(s): Durgadevacharya, A S Gopani
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 219
________________ 5 10 15 20 25 30 35 106 Jain Education International APPENDIX प्रभाते यदि वा सायं ज्योत्स्नावत्यामथो निशि । प्रवितत्य निजौ बाहू निजच्छायां विलोक्य च ॥ १६८ ॥ शनैरुत्क्षिप्य नेत्रे स्वच्छायां पश्येत्ततोंऽबरे । न शिरो दृश्यते तस्यां यदा स्यान्मरणं तदा ॥ १६९ ॥ नेक्ष्यते वामबाहुश्चेत् पुत्रदारक्षयस्तदा । यदि दक्षिणबाहुर्नेक्ष्यते भ्रातृक्षयस्तदा ॥ १७० ॥ अदृष्टे हृदये मृत्युरुदरे च धनक्षयः । गुह्ये पितृविनाशस्तु व्याधिरुरुयुगे भवेत् ॥ १७१ ॥ अदर्शने पादयोश्च विदेशगमनं भवेत् । अदृश्यमाने सर्वागे सद्यो मरणमादिशेत् ॥ १७२ ॥ X x X महानसे तथा शय्यागारे काकाः क्षिपंति चेत् । चर्मास्थिरज्जुं केशान् वा तदासन्नैव पंचता ॥ १८७ ॥ अथवोपश्रुतेर्विद्याद्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं नितः ॥ १८८ ॥ पूत्वा पंच नमस्कृत्याचार्यमंत्रेण वा श्रुती । गेहाच्छन्नश्रुतिर्गच्छेच्छिल्पिचत्वरभूमिषु ॥ १८९ ॥ चंदनेनार्चयित्वा क्ष्मां क्षित्वा गंधाक्षतादि च । सावधानस्ततस्तत्रोपश्रुतेः शृणुयाद् ध्वनिम् ॥ १९० ॥ अर्थातरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽवरः पुनः ॥ १९९ ॥ यथैष भवनस्तंभः पंचपरियं दिनैः । पक्षैर्मासैरथो वर्षेर्भक्ष्यते यदि वा न वा ॥ १९२ ॥ मनोहरतरश्चासीत् किं त्वयं लघु भक्ष्यते । अर्थातरापदेश्यः स्यादेवमादिरुपश्रुतिः ॥ १९३ ॥ एषा स्त्री पुरुषो वासौ स्थानादस्मान्न यास्यति । दास्यामो न वयं गंतुं गंतुकामो न चाप्ययम् ॥ १९४ ॥ विद्यते गंतुकामोऽयमहं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्रं स्यात्सरूपेत्युपश्रुतिः ॥ १९५ ॥ कर्णोद्घाटनसंजातोपश्रुत्यंतर मात्मनः । कुशलाः कालमासन्नमनासन्नं च जानते ॥ १९६ ॥ शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे ततः । चत्वारि दक्षिणपाणौ त्रीणि त्रीणि च पादयोः ॥ १९७ ॥ चत्वारि वामहस्ते तु क्रमशः पंच वक्षसि । त्रीणि शीर्षे दृशोर्द्वे द्वे गुह्य एकः शनौ नरे ॥ १९८ ॥ निमित्तसमये तत्र पतितं स्थापनाक्रमात् । जन्म नामऋक्षं वा गुह्यदेशे भवेद्यदि ॥ १९९ ॥ दृष्टं श्लिष्टं ग्रहैर्दुष्टैः सौम्यैरप्रेक्षितायुतम् । सजस्यापि तदा मृत्युः का कथा रोगिणः पुनः ॥ २०० ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290