________________
5
10
15
20
25
30
35
106
Jain Education International
APPENDIX
प्रभाते यदि वा सायं ज्योत्स्नावत्यामथो निशि । प्रवितत्य निजौ बाहू निजच्छायां विलोक्य च ॥ १६८ ॥ शनैरुत्क्षिप्य नेत्रे स्वच्छायां पश्येत्ततोंऽबरे ।
न शिरो दृश्यते तस्यां यदा स्यान्मरणं तदा ॥ १६९ ॥ नेक्ष्यते वामबाहुश्चेत् पुत्रदारक्षयस्तदा । यदि दक्षिणबाहुर्नेक्ष्यते भ्रातृक्षयस्तदा ॥ १७० ॥ अदृष्टे हृदये मृत्युरुदरे च धनक्षयः ।
गुह्ये पितृविनाशस्तु व्याधिरुरुयुगे भवेत् ॥ १७१ ॥ अदर्शने पादयोश्च विदेशगमनं भवेत् । अदृश्यमाने सर्वागे सद्यो मरणमादिशेत् ॥ १७२ ॥
X
x
X
महानसे तथा शय्यागारे काकाः क्षिपंति चेत् । चर्मास्थिरज्जुं केशान् वा तदासन्नैव पंचता ॥ १८७ ॥ अथवोपश्रुतेर्विद्याद्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं नितः ॥ १८८ ॥ पूत्वा पंच नमस्कृत्याचार्यमंत्रेण वा श्रुती । गेहाच्छन्नश्रुतिर्गच्छेच्छिल्पिचत्वरभूमिषु ॥ १८९ ॥ चंदनेनार्चयित्वा क्ष्मां क्षित्वा गंधाक्षतादि च । सावधानस्ततस्तत्रोपश्रुतेः शृणुयाद् ध्वनिम् ॥ १९० ॥ अर्थातरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽवरः पुनः ॥ १९९ ॥ यथैष भवनस्तंभः पंचपरियं दिनैः । पक्षैर्मासैरथो वर्षेर्भक्ष्यते यदि वा न वा ॥ १९२ ॥ मनोहरतरश्चासीत् किं त्वयं लघु भक्ष्यते । अर्थातरापदेश्यः स्यादेवमादिरुपश्रुतिः ॥ १९३ ॥ एषा स्त्री पुरुषो वासौ स्थानादस्मान्न यास्यति । दास्यामो न वयं गंतुं गंतुकामो न चाप्ययम् ॥ १९४ ॥ विद्यते गंतुकामोऽयमहं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्रं स्यात्सरूपेत्युपश्रुतिः ॥ १९५ ॥ कर्णोद्घाटनसंजातोपश्रुत्यंतर मात्मनः ।
कुशलाः कालमासन्नमनासन्नं च जानते ॥ १९६ ॥ शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे ततः । चत्वारि दक्षिणपाणौ त्रीणि त्रीणि च पादयोः ॥ १९७ ॥ चत्वारि वामहस्ते तु क्रमशः पंच वक्षसि ।
त्रीणि शीर्षे दृशोर्द्वे द्वे गुह्य एकः शनौ नरे ॥ १९८ ॥ निमित्तसमये तत्र पतितं स्थापनाक्रमात् । जन्म नामऋक्षं वा गुह्यदेशे भवेद्यदि ॥ १९९ ॥ दृष्टं श्लिष्टं ग्रहैर्दुष्टैः सौम्यैरप्रेक्षितायुतम् । सजस्यापि तदा मृत्युः का कथा रोगिणः पुनः ॥ २०० ॥
For Private & Personal Use Only
www.jainelibrary.org