SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ THE RISTASAMUCCAYA पृच्छायामथ लग्नास्ते चतुर्थदशमस्थिताः । ग्रहाः क्रूराः शशी षष्टाष्टमश्चेत् स्यात्तदा मृतिः ॥ २०९ ॥ पृच्छायाः समये लग्नाधिपतिर्भवति ग्रहः । यदि वास्तमितो मृत्युः सज्जस्यापि तदा भवेत् ॥ २०२ ॥ लग्नस्थश्वेच्छशी सौरिर्द्वादशे नवमः कुजः । अष्टमोऽर्कस्तदा मृत्युः स्याच्चेन्न बलवान् गुरुः ॥ २०३ ॥ रविः षष्ठस्तृतीयो वा शशी च दशमस्थितः । यदा भवति मृत्युः स्यात्ततीये दिवसे तदा ॥ २०४ ॥ पापग्रहाश्वेदुदयात्तु वः द्वादशेऽथवा । दिशंति तद्विदो मृत्युः तृतीये दिवसे तदा ॥ २०५ ॥ उदये पंचमे वापि यदि पापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्याद्दिवसैः पंचता ततः ॥ २०६ ॥ धनुर्मिथुनयोः सप्तमयोर्यद्यशुभग्रहाः । तदा व्याधिर्मृतिर्वा स्याज्योतिषामिति निर्णयः ॥ २०७ ॥ X X X सूर्योदयक्षणे सूर्य पृष्ठे कृत्वा ततः सुधीः । स्वपरायुर्विनिश्चतुं निजच्छायां विलोकयेत् ॥ २११ ॥ पूर्णा छायां यदीक्षेत तदा वर्षे न पंचता । कर्णाभावे तु पंचत्वं वर्षेर्द्वादशभिर्भवेत् ॥ २१२ ॥ हस्तांगुली स्कंधकेशपार्श्वनासाक्षये क्रमात् । दशाष्टसप्तपचत्र्येकवर्षैर्मरणं भवेत् ॥ २१३ ॥ षण्मासैम्रियते नाशे शिरसश्चिबुकस्य वा । ग्रीवानाशे तु मासेनैकादशाहेन दृकूक्षये ॥ २१४ ॥ सच्छिद्रे हृदये मृत्युर्दिवसैः सप्तभिर्भवेत् । यदि च्छायाद्वयं पश्येद्यमपार्श्वं तदा व्रजेत् ॥ २१५ ॥ X X x अनया विद्ययाष्टशतवारं विलोचने । स्वच्छायां चाभिमंत्र्यार्क पृष्ठे कृत्वारुणोदये ॥ २९८ ॥ परच्छायां परकृते स्वच्छायां स्वकृते पुनः । सम्यक् तत् कृतपूजः सन्नुपयुक्तो विलोकयेत् ॥ २१९ ॥ संपूर्णा यदि पश्येत्तामावर्षे न मृतिस्तदा । कमजंघाजान्वभावे त्रिद्व्ये काब्दैर्मृतिः पुनः ॥ २२० ॥ उरोरभावे दशभिर्मासैर्नश्येत्कटेः पुनः । अष्टाभिर्नवभिर्वापि तुंदाभावे तु पंचभिः ॥ २२९ ॥ ग्रीवाभावे चतुस्त्रिये कमासैम्रियते पुनः । कक्षाभावे तु पक्षेण दशाहेन भुजक्षये ॥ २२२ ॥ दिनैः स्कंधक्षयेऽष्टाभिश्चतुर्याम्या तु हृत्क्षये । शीर्षाभावे तु यामाभ्यां सर्वाभावे तु तत्क्षणात् ॥ २२३ ॥ Jain Education International For Private & Personal Use Only 107 S 10 15 20 25 30 35 www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy