SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ THE RISTASAMUCCAYA प्रसन्नः सितसंव्यानः कोशीकृत्य करद्वयम् । ततस्तदंतः शून्यं तु कृष्णवर्ण विचिंतयेत् ॥ १३३ ॥ उद्घाटितकरांभोजस्ततो यत्रांगुली तिथौ । वीक्ष्यते कालबिंदुः स काल इत्यत्र कीर्त्यते ॥ १३४ ॥ X x X स्वप्ने स्वं भक्ष्यमाणं च गृध्रकाकनिशाचरैः । उयमानं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः ॥ १३७ ॥ X x X छर्दिमूत्रपुरीषं वा सुवर्णरजतानि वा । स्वप्ने पश्येद्यदि तदा मासान्नवैव जीवति ॥ १४० ॥ स्थूलोऽकस्मात्कृशोऽकस्माद्कस्मादतिकोपनः । अकस्मादतिभीरुव मासानष्ठैव जीवति ॥ १४१ ॥ X X X स्वमे मुंडितमभ्यक्तं रक्तगंधस्त्रगंबरम् । पश्येद्याभ्यां खरं यांतं स्वं योऽब्दार्थ स जीवति ॥ १५१ ॥ X X x इंदुमुष्णं रविं शीतं छिद्रं भूमौ रवावपि । जिह्वां श्यामां मुखं कोकनदाभं च यदेक्षते ॥ १५६ ॥ तालुकंपो मनःशोको वर्णोऽगेऽनेकदा यदा । नामेवाकस्मिकी हिक्का मृत्युर्मासद्वयात्तदा ॥ १५७ ॥ जिह्वा नाखादमादत्ते मुहुः स्खलति भाषणे । श्रोत्रे न शृणुतः शब्द गंधं वेत्ति न नासिका ॥ १५८ ॥ स्पंदेते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः । नक्तमिंद्रधनुः पश्येत् तथोल्कापतनं दिवा ॥ १५९ ॥ न च्छायामात्मनः पश्येत् दर्पणे सलिलेऽपि वा । अनन्दां विद्युतं पश्येत् शिरोऽकस्मादपि ज्वलेत् ॥ १६० ॥ हंसकाकमयूराणां पश्येच्च कापि संहतिम् । शीतोष्णखर मृद्वादेरपि स्पर्श न वेत्ति च ॥ १६१ ॥ अमीषां लक्ष्मणां मध्याद्यदैकमपि दृश्यते । जंतोर्भवति मासेन तदा मृत्युर्न संशयः ॥ १६२ ॥ शीते हकारे फुत्कारे चोष्णे स्मृतिगतिक्षये । अंगपंचकशैत्ये च स्याद्दशाहेन पंचता ॥ १६३ ॥ x X X स्नातमात्रस्य हृत्पादं तत्क्षणाद्यदि शुष्यति । दिवसे जायते षष्ठे तदा मृत्युरसंशयम् ॥ १६५ ॥ X X X न स्वनासां वजिह्वां न ग्रहान्नामला दिशः । नापि सप्तऋषीन् व्योम्नि पश्यति म्रियते तदा ॥ १६७ ॥ Jain Education International For Private & Personal Use Only 105 5 10 15 20 25 30 www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy