________________
THE RISTASAMUCCAYA
अथ सप्तदशाष्टौ च रंध्रांतं विलिखेत् क्रमात् । ततः स्वरानषंढांश्च वर्णांश्च ङजणोज्झितान् ॥ २ ॥ अत्राक्षराधः स्थैः स्वैः स्वैरकैः संकलितं भवेत् । वसुभिर्भाजिते शेषे आया ध्वजमुखादयः ॥ ३॥ ध्वजो धूम्रोऽथ सिंहः श्वा सौरभेयः खरो गजः । ध्वांक्षश्चैते क्रमेणैव आयाष्टकमुहाहृतम् ॥ ४ ॥ काकाली श्वा च भवेत्सारमेयाच्च रासभः । बलवान् रासभादुक्षा वृषभादपि कुंजरः ॥ ५ ॥ कुंजरादपि पंचास्यः सिंहादपि बली ध्वजः । ध्वजादपि बली धूम्रम्तथा जातिविशेषतः ॥ ६ ॥ भागहारेण शून्यत्वादष्टमः परिगृह्यते । एकाद्यैः शेषभूतांकेर्ध्वजायाश्चायचक्रमात् ॥ ७ ॥
अथ समरविजयतंत्रे | आयचक्रेति ॥ १ ॥ २ ॥ यथा देवदत्तयज्ञदत्तयोविजयपराजये । देवदत्तनामांक संख्या एकोनपंचाशत् ४९ यज्ञदत्तनामांक संख्या ८४ चतुरशीतिः उभाभ्यां वसुभाजिते शेषे देवदत्तस्यैकं शेषं यज्ञदत्तस्य चत्वारि ४ देवदत्तस्यायो ध्वजः । यज्ञदत्तस्यायः वा ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥
आयचक्रमिदं प्रोक्तं यत्सुरैरपि दुर्लभम् ।
अत्र नामाक्षरादीनां युक्तिरन्या प्रदर्श्यते ॥ ८ ॥ जयाजयपरीक्षायां स्वरोदयपरिश्रितात् । षोडशाक्षरवर्गः स्यात्कादयः पंच वर्णकाः ॥ ९ ॥ चतुश्चतुष्कवर्णौ च यशौ वर्गाः प्रकीर्तिताः । नाम्नि वर्णात्स्वरात् संख्या वर्गवर्णवशाच्च सा ॥ १० ॥ इति आयचक्रम् ॥
व्याख्या | योधस्य नाम्नि ये वर्णाः तेषां संख्या एकत्र कार्या, कथं कार्या तत्राह । वर्गवर्णवशात् । वर्गाणां यावत्संख्यावर्णः तत्संख्या नानि पृथक् ग्राह्या, वर्णानां संख्या एकत्र कार्या तथा नाम्नि ये मात्राखरास्तेषां स्वरवर्गाक्षरसंख्या पृथक् ग्राह्या, स्वरसंख्या द्विगुणा वर्णसंख्या चतुर्गुणा तयोः संख्यांकसंयोगं कृत्वा भागं हरेत् ततः “ सप्तभिर्यौ विशेषांक स्तेनारेरात्मनस्तथा । बलावलं विचार्य स्याद्युद्धावसरवेदिभिः " । तथा च उदाहरणं । देवदत्तस्य दकारस्य त्रि ३ संख्या वकारस्य चत्वारः ४ द्वितीयदकारस्यापि त्रिसंख्या ३ तकारस्यैकं १ वर्णानामेकादश ११ संख्या जाता। अथ स्वराणां संख्या । एकारस्यैकादश संख्या ११ यतः षोडशाक्षरवर्गः । एवं दत्त एषां मात्राखरोऽकारः । तेषां संख्या तिस्रः एवं मात्रावर संख्या जाता चतुर्दश १४ मात्रासंख्या द्विगुणा २८ वर्णसंख्या चतुर्गुणा जाता ४४ तयोः संयोगे जाता संख्या द्विसप्ततिः ७२ ॥ अथ यज्ञदत्तस्य यकारस्यैका संख्या १ गकारस्य त्रि ३ संख्या यकारस्यैका १ दस्य त्रिसंख्या ३ तकारस्यैका १ एवं वर्णसंख्या एकत्र नव ९ तथा यज्ञदत्तनानि वर्णस्वराश्चत्वारोऽकारास्तत्संख्या चत्वारः ४ पृथक् खरसंख्या द्विगुणा ८ वर्णस्वरसंख्या चतुर्गुणा ३६ एवं षटूत्रिंशत् तद्योगे चतुश्चत्वारिंशत् ४४ द्वयोः सप्तभिस्तष्टे शेषांकौ २ उभयोः शेषं द्वितयं गतं २ तत्र बलाबलम् । “साम्येन संधिराधिक्ये तयोहीनतया वधः” । इदं बलाबलम् । अथात्रैव पुनर्विशेषमाह । “ किंचिच्छेषेऽत्र विषमे समे वापि पृथक् भवेत् । विषमे विजयो नूनमाधिक्येऽपि समे परे" । यदि द्वयोः सप्तशेषिते सति द्वयं विषमांक मेवावशिष्यते तदा यस्याधिकं स जयी भवति । द्वयोः समांकेऽवशेषिते सति यस्य हीनांकः
1
Jain Education International
For Private & Personal Use Only
81
www.jainelibrary.org