Book Title: Pramannay Tattvalkalankar Author(s): Publisher: Unknown View full book textPage 6
________________ प्रमाणनयतत्त्वालोकालङ्कारः। नच कवलाहारवत्वेन तस्यासर्वज्ञत्वं कवलाहारसर्वज्ञत्वयोरविरोधात् ॥२८॥ इति प्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥ २ ॥ अथ तृतियः परिच्छेदः अस्पष्टं परोक्ष।१||स्मरणप्रत्य भिज्ञानतर्कानुमानागमभेदतस्तत्पश्चप्रकारं॥२॥तत्रसंस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम् ॥३॥ तत्तीर्थकरबिम्बमिति यथा ॥ ४ ॥ अनुभवस्मृतिहेतुकं तिर्यगुर्द्धतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५॥ यथातजातीयएवायं गोपिण्डो गोसदृशोगवयः स एवायं जिनदत्त इत्यादि ॥ ६ ॥ उपलम्भानुपलम्भसम्भवं त्रिकालीकलित साध्यसाधनसंबन्धाद्यालम्बनमिदमस्मिन् सत्येवभवतीत्याधाकारं संवेदनमूहापरनामा तर्कः ॥७॥ यथा यावान् कश्चित् धूमःस सर्वोवहौसत्येव भवPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40