Book Title: Pramannay Tattvalkalankar
Author(s):
Publisher: Unknown
View full book text
________________
.....
......
प्रमामनयतत्त्वालोकालङ्कारः। विरुद्वयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः ॥१॥ प्रारम्भकश्चात्र विजिगीषुः, तत्त्वनिर्णिनीषुश्च ॥२॥ स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः ॥३॥ तथैवं तत्त्वं प्रतितिष्ठापयिपुस्तत्त्वनिर्णिनीषुः ॥४॥ अयं च द्वेधा स्वात्मनि परत्र च ॥५॥ आयः शिष्यादिः ॥ ६॥ द्वितीयो गुर्वादिः ॥ ७॥ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥८॥ एतेन प्रत्यारम्भकोपि व्याख्यातः ॥ ९ ॥ तत्र प्रथमे प्रथमततीयतरीयाणां चतरङ्ग एवान्यतमस्याप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौः स्थ्यापत्तेः ॥१०॥ द्वितीये तृतीयस्य कदाचिद् द्वयङ्गः,कदाचिद् व्यङ्गः११ तत्रैव द्वयङ्गस्तुरीयस्य ॥ १२॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ तुरीये प्रथमादीनामेवम् ॥ १४ ॥

Page Navigation
1 ... 37 38 39 40