Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown
Catalog link: https://jainqq.org/explore/022482/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥श्री----- श्रीयादिदेवमुरिविरचित प्रमाणनयतत्त्वालोकालङ्कारः। - प्रथमः परिच्छेदः । रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः। शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥१॥ प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥ स्वपरव्यपसायिज्ञानं प्रमाणम् ॥ २॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणमतोज्ञानमेवेदम् ॥३॥ नवै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नंतस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥ ४॥ नखल्वस्य स्वनिर्णीतौ करणत्वं स्तंभादेरिवाचेतन Page #2 -------------------------------------------------------------------------- ________________ २ प्रमाणनयतत्त्वालोकालङ्कारः। त्वात् नाप्यर्थनिश्चितौ स्वनिश्चितावकरणस्य कुंभादेरिवतत्राप्यकरणत्वात् ॥ ५ ॥ तव्यवसायस्वभावं समारोपपरिपन्थित्वात्प्रमाणत्वाद्वा॥ ६॥ अतस्मिँस्तदध्यवसायः समारोपः॥ ७॥ सविपर्ययसंशयानध्यवसायभेदात्रेधा ॥ ८ ॥ विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥९॥ यथा शुक्तिकायामिदं रजतमिति ॥ १०॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शिज्ञानं संशयः ॥ ११ ॥ यथाऽयं स्थाणुर्वा पुरुषोवेति ॥ १२ ॥ किमित्यालोचनमात्रमनध्यवसायः ॥ १३ ॥ यथागच्छतस्तुणस्पर्शज्ञानम् ॥ १४ ॥ ज्ञानादन्योऽर्थः परः ॥ १५॥ स्वस्य व्यवसायःस्वाभिमुख्येन प्रकाशनं बाह्यस्ये. वतदाभिमुख्येन करिकलभकमहमात्मनाजानामीति ॥ १६॥ Page #3 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। कः खलुज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपितत्प्रकारं नाभिमन्यत मिहिरालोकवत्।। ॥१७॥ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम्॥१८॥ तदितरत्त्वप्रामाण्यम् ॥ १९ ॥ तदुभयमुत्पत्तौ परतएव ज्ञप्तौ तु स्वतः परतश्चेति ॥ २० ॥ श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्त्वालोकालङ्कारे प्रमाण स्वरूपनिर्णयो नाम प्रथमः परिच्छेदः ॥ १॥ अथ द्वितीयः परिच्छेदः तद्विभेदं प्रत्यक्षं च परोक्षं च ॥ १॥ स्पष्टं प्रत्यक्षम् ॥ २॥ अनुमानाद्याधिक्येन विशेष प्रकाशनं स्पष्टत्वम्॥३॥ तद्विप्रकारं सांव्यवहारिकं पारमार्थिकं च ॥४॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥ ५॥ Page #4 -------------------------------------------------------------------------- ________________ ४ प्रमाणनयतत्त्वालोकालङ्कारः । एतद्वितयमवग्रहेहावायधारणाभेदादेकंशश्चतुर्वि. कल्पकम् ॥ ६॥ विषयविषयिसन्निपातान्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥ ७॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८॥ ईहितविशेषनिर्णयोऽवायः ॥ ९॥ सएवढतमावस्थापन्नोधारणा ॥ १०॥ संशयपूर्वकत्वादीहायाः संशया दः ॥ ११ ॥ कथञ्चिभेदेपिपरिणाम विशेषादेषां व्यपदेशनेदः ॥ १२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतया ऽनुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥ १३ ।। क्रमोप्यमीषामयमेव तथैवसंवेदनात् ॥१४॥ एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच॥१५॥ अन्यथाप्रमेयानवगतिप्रसङ्गः ॥ १६ ॥ १ 'एकैकश " इत्यपिपाठान्तरम् । Page #5 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । तथाहि नखल्वदृष्टमवगृह्यते नचानवगृहीतं सन्दिह्यते नचासन्दिग्धमीद्यते नचानीहितमवेयते नाप्यनवेतं धार्यते ॥ १७ ॥ क्वचित् क्रमस्यानुपलक्षणमेषमाशुत्पादादुत्पलपत्रशतव्यतिभेदक्रमवत् ॥ १८ ॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥ १९ ॥ तद्विकलं सकलं च ॥ २० ॥ भवगुण तत्र विकलमवधिमनःपर्यायज्ञानरूपतयाद्वेधा ॥२१ अवधिज्ञानावरणविलयविशेषसमुद्भवं प्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥ २२ ॥ संयमविशुद्धिनिबन्धनाद्विशिष्टावरण विच्छेदाजातं मनोद्रव्यपर्यायालम्बनं मनः पर्यायज्ञानम् ॥ २३ ॥ सकलंतुसामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ॥ २४ ॥ तद्वानईन्निर्दोषत्वात् ॥ २५ ॥ निर्दोषोसौ प्रमाणाविरोधिवाक्त्वात् ॥ २६ ॥ तदिष्टस्य प्रमाणेनाबाध्यमानत्वात् तद्वाच स्तेना विरोधसिद्धिः ॥ २७॥ Page #6 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। नच कवलाहारवत्वेन तस्यासर्वज्ञत्वं कवलाहारसर्वज्ञत्वयोरविरोधात् ॥२८॥ इति प्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥ २ ॥ अथ तृतियः परिच्छेदः अस्पष्टं परोक्ष।१||स्मरणप्रत्य भिज्ञानतर्कानुमानागमभेदतस्तत्पश्चप्रकारं॥२॥तत्रसंस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम् ॥३॥ तत्तीर्थकरबिम्बमिति यथा ॥ ४ ॥ अनुभवस्मृतिहेतुकं तिर्यगुर्द्धतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५॥ यथातजातीयएवायं गोपिण्डो गोसदृशोगवयः स एवायं जिनदत्त इत्यादि ॥ ६ ॥ उपलम्भानुपलम्भसम्भवं त्रिकालीकलित साध्यसाधनसंबन्धाद्यालम्बनमिदमस्मिन् सत्येवभवतीत्याधाकारं संवेदनमूहापरनामा तर्कः ॥७॥ यथा यावान् कश्चित् धूमःस सर्वोवहौसत्येव भव Page #7 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। तीति तस्मिन्नसत्यसौ नभवत्येवेति ॥८॥ अनुमानं द्विप्रकारं स्वार्थ परार्थ च ॥ ९॥ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥ १०॥ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥११॥ नतु त्रिलक्षणकादिः ॥ १२ ॥ तस्य हेत्वाभासस्यापिसभ्वात् ॥ १३ ॥ अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥ १४ ॥ शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥१५॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्रहणम् ॥ १६ ॥ अनभिमतस्यासाध्यत्व प्रतिपत्तयेऽभीप्सितपदोपादानम् ॥ १७॥ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्मएवान्यथा तदनुपपत्तेः ॥१८॥ नहि यत्र यत्र धूमस्तत्र तत्रचित्रभानोरिव धरित्रीधरस्याप्यनुवृत्तिरस्ति ।। १९ ।। Page #8 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धोधर्मी ॥ २०॥ धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतःक्वापि विकल्पप्रमाणाभ्याम् ॥ २१ ॥ यथा समस्तिसमस्तवस्तुवेदी क्षितिधरकन्धरेयंधूमध्वजवती ध्वनिः परिणतिमानिति ॥ २२ ॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२३॥ साध्यस्य प्रतिनियतमिसंबन्धिता प्रसिद्धये हेतोरुपसंहारवचनवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः ॥२४॥त्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमङ्गीकुरुते ॥२५॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायिवचनं परार्थ प्रत्यक्षं परप्रत्यक्षहेतुत्वात् ॥ २६॥ यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभारिणींजिनपतिप्रतिमामिति॥ २७ ॥ पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम् ॥ २८ ॥ Page #9 -------------------------------------------------------------------------- ________________ प्रनाणनयतत्त्वालोकालङ्कारः । हेतुप्रयोगस्तथो पपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥ २९ ॥ सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः । असति साध्ये हेतो रनुपपत्तिरेवान्यथानुपपत्तिः॥३०॥ यथाकृशानुमानयंपाकप्रदेशः सत्येवकृशानुमत्त्वे धूमवत्त्वस्योपपत्तेरसत्यनुपपत्तेवेति ॥ ३१ ॥ अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः ॥ ३२॥ नदृष्टान्तवचनं परप्रतिपत्तये प्रभवति तस्यां पक्षहेतुवचनयोरेव व्यापारो पलब्धेः॥ ३३॥ नच हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्ततर्कप्रमाणादेव तदुपपत्तेः ॥ ३४ ॥ नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापक्षायामनवस्थिते१निवारः समवतारः ॥ ३५॥ नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः अन्त Page #10 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। ाप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिातेरुद्भावनं व्यर्थम् ॥ ३७॥ पक्षीकृतएवविषये साधनस्य साध्येन व्याप्तिरन्तयातिरन्यत्रतुबहियातिः यथाऽनैकान्तात्मकं वस्तु सत्त्वस्यतथैवोपपत्तेः । अग्निमानयं देशो धूमवत्वात् य एवं स एवं यथा पाकस्थानम् ॥३८॥ नोपनयनिगमनयोरपिपरप्रतिपत्तौ सामर्थ्यपक्षहेतुप्रयागोदेव तस्याः सद्भावात् ॥ ३९ ॥ समर्थनमेवपरंपरप्रतिपत्त्यङ्गमास्तां तदन्तरेणदृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥ ४० ॥ मन्दमतींस्तुव्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥ ४१॥ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥ ४२ ॥ स द्वेधा साधर्म्यतो वैधयंतश्च ।। ४३॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ताप्रकाश्यते स साधर्म्यदृष्टान्तः॥ ४४ ॥ यथा यत्र धूमस्तत्र वह्निर्यथा महानसः॥४५॥ Page #11 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। ११ यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्यते सवैधर्म्यदृष्टान्तः ॥ ४६॥ यथाग्न्यभावे नभवत्येवधूमो यथा जलाशय॥४७॥ हेतोः साध्यमिण्युपसंहरणमुपनयः ॥४८|| यथा धूमश्चात्र प्रदेशे ॥ ४९ ॥ साध्यधर्मस्य पुनर्निगमनम् ॥ ५० ॥ यथा तस्मादग्निरत्र ।। ५१ ॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥५२॥ उक्तलक्षणो हेतुर्द्विप्रकारः उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ।। ५३ ॥ उपलब्धिर्विधिनिषेधयोः सिद्धि निबन्धनमनुपब्धिश्च ॥ ५४॥ विधि सदंशः ॥५५॥ प्रतिषेधोऽसदंशः।। ५६ ॥ सचतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावो. त्यन्ताभावश्च ॥ ५७ ॥ यन्निवृत्तावेव कार्यस्यसमुत्पत्तिःसोस्यप्रागभावः।।५८ Page #12 -------------------------------------------------------------------------- ________________ १२ प्रमाणनयतत्त्वालोकालङ्कारः । यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥ ५९॥ यदुत्पतौ कार्यस्यावश्यं विपत्तिः सोस्य प्रध्वं. साभावः॥६०॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ ६१ ॥ स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः॥६२॥ यथा स्तंभस्वभावात् कुंभस्वभावव्यावृत्तिः ॥६३॥ कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ६४ ॥ यथा चेतनाऽचेतनयोः ॥६५॥ उपलब्धेरपि दैविध्यमविरूद्धोपलब्धिर्विरुद्धोपलब्धिश्च ॥६६॥ तत्राऽविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ६७ ॥ साध्येनाविरुद्धानांव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिरिति ॥ ६८ ॥ तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादकसान - Page #13 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। १३ ग्र्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमत मेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यश्च ॥ ६९॥ पूर्वचरोत्तरचरयोर्नस्वन्नावकार्यकारणभावौतयोः कालव्यवहितावनुपलम्नात् ॥ ७० ॥ नचातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं व्यवहितत्त्वेन नि ापारत्वात् ॥ ७१ ॥ स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ ७२ ।। न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥७३॥ परंपराव्यवहितानांपरेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ ७४ ॥ सहचारिणोः परस्परस्वरुपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेनतदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥ ७५ ॥ Page #14 -------------------------------------------------------------------------- ________________ १४ प्रमाणनयतत्त्वालोकालङ्कारः । ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात् यः प्रयत्नानन्तरीयकः स परिणतिमान् यथास्तम्भो यो वा न परिणतिमान् स न प्रयत्नानन्तरीयको यथा वान्ध्येयः प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्येण वैधयेण च ॥ ७६ ॥ अस्त्यत्र गिरिनिकुळे धनञ्जयो धूमसमुपलम्भा. दिति कार्यस्य ॥ ७७॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ॥७॥ उदेष्यति मुहुर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥ ७९ ॥ उदगुर्मुहूर्तात्पूर्वपूर्वफल्गुन्यउत्तरफल्गुनीनामुद्गमोपलब्धरित्युत्तरचरस्य ॥ ८॥ अस्तीह सहकारफले रूपविशेषः समास्वाद्यमानरसविशेषादिति सहचरस्य ।। ८१॥ विरुकोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा।।८२ तत्राद्या स्वभावविरुद्वोपब्धिर्यथा ॥ ८३ ।। Page #15 -------------------------------------------------------------------------- ________________ प्रमामनयतत्त्वालोकालङ्कारः । नास्त्येव सर्वथैकान्तोनेकान्तस्योपलम्भात्॥८॥ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥८५॥ विरुद्वव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्रसन्देहात् ॥ ८६ ॥ विरुद्वकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधायुप. शान्तिर्वदनविकारादेः ॥ ८७ ॥ विरुद्वकारणोपलब्धिर्यथा नास्य महर्षेरसत्यवचः समस्तिरागद्वेषकानुष्याकलङ्कितज्ञानसंपन्नत्वात् ८८ विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहुर्तान्ते पुष्यतारा रोहिण्युद्गमात् ॥ ८९ ॥ विरुद्धोत्तरचरोपलब्धियथा नोदगान् मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयात् ॥ ९० ॥ विरुद्वसहचरोपलब्धियथा नास्त्यस्य मिथ्या ज्ञानं सम्यग्दर्शनात् ॥ ९१ ॥ अनुपलब्धेरपिद्वैरूप्यमविरुझानुपलब्धिर्विरुझानुपलब्धिश्च ॥ ९२॥ तत्राविरुद्वानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा९३ Page #16 -------------------------------------------------------------------------- ________________ १६ प्रमाणनयतत्त्वालोकालङ्कारः। प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपू. र्वचरोत्तरचरसहचराणामनुपलब्धिरिति॥ ९४ ॥ स्वभावानुपलब्धिर्यथा नास्त्यत्र भृतले कुम्भ उ. पलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात्॥ ॥९५॥व्यापकानुपलब्धिर्यथा नास्त्यत्रप्रदेशे पनसः पादपानुपलब्धेः ॥ ९६ ॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजमकरानवलोकनात् ॥ ९७ ।।। कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयोभावास्तत्त्वार्थश्रद्धानाभावात् ॥ ९८ ॥ पूर्वचरानुपलब्धिर्यथानोद्गमिष्यति मुहर्त्तान्तेस्वातिनक्षत्रं चित्रोदयादर्शनात् ॥ ९९ ॥ उत्तरचरानुपलब्धिर्यथा नोदगमत् पूर्वभाद्रपदामुहू त्पूर्वमुत्तरभाद्रपदोद्गमानवगमात् ॥१०॥ सहचरानुपलब्धिर्यथा नास्त्यस्यसम्यग्ज्ञानंसम्यग्दर्शनानुपलब्धेः ॥ १०१ ॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१०२॥ Page #17 -------------------------------------------------------------------------- ________________ ममाणनयतत्त्वालोकालङ्कारः। विरुद्ध कार्य कारण स्वजाव व्यापक सहचरानुपलम्भभेदात्॥ १०२ ॥ विरुद्ध कार्यानुपलब्धिर्यथाऽत्रशशरिणि रोगातिशयः समस्ति निरोगव्यापारानुपलब्धेः ॥ १०३ ॥ विरुद्वकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्टसंयोगाभावात् ॥ १०४ ॥ विरुद्धस्वभावानुपलब्धियथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात् ॥ १०५ ॥ विरुद्वव्यापकानुपलब्धिर्यथाऽस्त्यत्र च्छाया औष्ण्यानुपलब्धेः ॥ १०६॥ विरुद्धसहचरानुपलब्धियथा ऽस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः॥ १० ॥ इतिस्मरणप्रत्यभिज्ञानतर्वानुमानस्वरूपनिर्णयोनाम तृतीयः परिच्छेदः ॥ ३ ॥ आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥ १॥ उपचारादाप्तवचनश्च ॥ यथा समस्त्यत्र प्रदेशे रत्ननिधानं सन्तिरत्नसानुप्रभृतयः॥३॥ Page #18 -------------------------------------------------------------------------- ________________ १८ प्रमाणनयतत्त्वालोकालङ्कारः। अभिधेयं वस्तु यथावस्थितं योजानीते यथाज्ञातश्चाभिधत्ते स आप्तः॥४॥ तस्य हि वचनमविसंवादि भवति ॥ ५॥ स च द्वेधा लौकिको, लोकोत्तरश्च ॥ ६ ॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थंकरादिः ॥७॥ वर्णपदवाक्यात्मकं वचनम् ॥ ८॥ अकारादिः पौगालिको वर्णः ॥ ९ ॥ वर्णानामन्योन्यापेक्षणां निरपेक्षा संहतिः पदं, पदानान्तु वाक्यम् ॥ १० ॥ स्वभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः ॥ ११ ॥ अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवत् यथार्थत्वायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः ॥१२॥ सर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥ १३ ॥ एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥ Page #19 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । तद्यथा स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमोभङ्गः ॥ १५ ॥ स्यान्नास्त्येव सर्वमितिनिषेधकल्पनया द्वितीयः॥ १६॥ स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥ १७ ॥ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ॥ १८ ॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः ॥ १९ ॥ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्वधिनिषेधकल्पनया च षष्ठः ॥ २० ॥ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतोविधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमइति ॥ २१ ॥ १९ विधिप्रधानएव ध्वनिरिति न साधुः ॥ २२ ॥ निषिधस्य तस्मादप्रतिपत्तिप्रसक्तेः ॥ २३ ॥ अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥२४॥ Page #20 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। क्वचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य त. स्याप्राधान्याऽनुपपत्तेः ॥ २५॥ निषेधप्रधानएव शब्द इत्यपि प्रायुक्तन्यायादपास्तम् ॥ २६ ॥ क्रमादुभयप्रधानएवायमित्यपि नसाधीयः ॥२७॥ अस्य विधिनिषेधाऽन्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥ २८॥ युगपद्विधिनेषेधात्मनो ऽर्थस्यावाचक एवासौ इतिवचो न चतुस्त्रम् ॥ २९ ॥ तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ॥ ३० ॥ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगदवाचकएव स इत्येकान्तोऽपि नकान्तः ॥ ३१ ॥ निषेधात्मनः सहद्वयात्मनश्चार्थस्य वाचकत्वावा. चकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥३२॥ निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचकएवायमित्यप्यवधारणं न रमणीयम् ॥३३॥ इतरथापि संवेदनात् ॥ ३४॥ क्रमाक्रमाभ्यामुभयम्वभावस्य भावस्थ वाचकश्चा Page #21 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। वाचकश्च ध्वनि न्यथा इत्यपि मिथ्या ॥ ३५॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः ॥३६॥ एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्मा भ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥ ३७॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तनङ्गीनामेव संभवात् ॥ ३८॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥ ३९ ॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् ॥ तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् ॥ ४१ ॥ तस्याऽपिसप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥४२॥ इयंसप्तनङ्गी प्रतिनङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥ ४४ ॥ Page #22 -------------------------------------------------------------------------- ________________ २२ प्रमाणनयतत्त्वालोकालङ्कारः। तद्विपरीतस्तु विकलादेशः॥ ४५ ॥ तद्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति।४६। न तदुत्पत्तितदाकारताभ्यां, तयोः पार्थ्यक्येन सामसत्येन च व्यभिचारोपलम्नात् ॥४७॥ इति आगमाख्यप्रमाणस्वरूपनिर्णयोनाम चतुर्थः परिच्छेदः ४ तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्यार्थक्रियासामर्थ्यघटनाच ॥ २॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्खता. सामान्यञ्च ॥३॥ प्रतिव्यक्तितुल्यापरिणतिस्तिर्यक्सामान्यं शबलशाबलेयादिपिण्डेषु गोत्वं यथा ॥ ४ ॥ पूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥५॥ Page #23 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। २३ विशेषोपि द्विरूपो गुणः पर्यायश्च ॥६॥ गुणः सहभावीधर्मो यथात्मनि विज्ञानव्यक्तिशक्तयादिः ॥७॥ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिवा इतिविषयस्वरुपनिर्णयो नामपश्चमः परिच्छेदः ॥ यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥ १॥ तद्विविधमानन्तर्येण पारम्पर्येण च ॥ २॥ तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥३॥ पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम्॥४॥ शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥५॥ तत्प्रमाणतः स्याद्भिन्नमनिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः॥६॥ उपादानबुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतो निचार इति न विभावनीयम् ॥ ७ ॥ Page #24 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ८ प्रमाणतया परिणतस्यैवात्मनः फलतया २४ परिणतिप्रतीतेः ॥ ९॥ यः प्रमिमीते सएवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिजिरस्खलितमनुभवात् ॥ १० ॥ इतरथा स्वपरयोः प्रमाणफलव्यवस्था विप्लवः प्रसज्येत ॥ ११ ॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादनिन्नेनसाक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥ १२॥ कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ॥१३॥ साध्यसाधन जावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥ ||१४|| प्रमाणंहि करणाख्यं साधनं, स्वपरव्यवसितौ साधकतमत्वात् ॥ १५ ॥ स्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलंतु साध्यं, प्रमाणनिष्पाद्यत्वात् ॥ १६ ॥ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः ॥ कर्तृक्रिययोः साध्यसाधक नावेनोपलम्नात् ॥१८॥ Page #25 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । २५ कर्त्ता हि साधकः, स्वतन्त्रत्वात्; क्रियातु, साध्या कर्तृनिर्वत्यत्वात् ॥ १० ॥ न च क्रिया क्रियावतः सकाशाद जिन्नेव, निन्नेव वा; प्रतिनियतक्रियाक्रियावद्भावनङ्गप्रसङ्गात् ॥ २० ॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धि विरोधात् ॥ २१ ॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्त्तव्यः ॥ २२ ॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरुपाभासाः ||२४|| यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनविपर्यसंशयानध्यवसायाः ॥ २५ ॥ तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥ २६ ॥ सांव्यवहारिक प्रत्यक्षमिव यदाभासते तत्तदा भासम् ॥ २७ ॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानञ्च ॥ Page #26 -------------------------------------------------------------------------- ________________ २६ प्रमाणनयतत्त्वालोकालङ्कार पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ यथाशिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् ॥ ३० ॥ अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम्॥३१॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ३२ तुल्ये पदार्थे स एवायमित्येकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाभासम् ॥ ३३ ॥ यमलकजातवत् ॥ ३४॥ असत्यामपि व्याप्तौ तदवभासः तर्काभासः ॥३५॥ सश्यामो मैत्रतनयत्वात् इत्यत्र यावान् मैत्रतनयः स श्याम इति यथा ॥ ३६ ॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥ तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥ ३८॥ प्रतीतसाध्यधर्माविशेषणो यथार्हातान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्तिजीव इत्यादिः॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलो Page #27 -------------------------------------------------------------------------- ________________ प्रमामनयतत्त्वालोकालङ्कारः। २७ कस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा ॥ ४१॥ अनुमाननिराकृत्साध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरगो वा ॥ ४ ॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनै रजनीभोजनं भजनीयम् ॥ ३॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥ ४४ ॥ स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥ ४५ ॥ अनभीप्सितसाध्यधर्माविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः॥ ४६॥ असिद्धविरुद्धानकान्तिकास्त्रयो हेत्वाभासाः ॥४७॥ यस्यान्यथानुपपत्तिःप्रमाणेन न प्रतीयते सोऽसिद्धः Page #28 -------------------------------------------------------------------------- ________________ २८ प्रमाणनयतत्त्वालोकालङ्कारः। ॥४८॥सद्विविध उभयासिकोऽन्यतरासिद्धश्च॥४९॥ उभयासिद्वो यथा परिणामी शब्दश्चाक्षुषत्वात् ५० अन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वात् ॥ ५१ ॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥ ५५ ॥ यथा नित्यएव पुरुषोऽनित्यएव वा प्रत्यभिज्ञानादिमत्वात् ॥ ५३ ॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ५४ सद्वेधा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्चः ॥ ५५॥ निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वात् ॥ ५६ ॥ सन्दिग्धविपक्षवृत्तिको यथा विवादापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥ ५७ ॥ साधम्र्येण दृष्टान्ताभासो नवप्रकारः ॥ ५८॥ साध्यधर्मविकलः साधनधर्मविकलः उभयधर्म Page #29 -------------------------------------------------------------------------- ________________ मनाणनयतत्त्वालोकालङ्कारः। २९ विकलः सन्दिग्धसाध्यधर्मा सन्धिग्धसाधनधर्मा संन्दिग्धोभयधा अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति ॥ ५९॥ तत्रापौरुषेयः शब्दोऽमुर्त्तत्वाद् दुःखवदिति साध्य. धर्मविकलः ॥ १॥ ६०॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः ॥ १ ॥ ६१ ॥ कलशवदित्युभयधर्मविकलः ॥ १ ॥ ६॥ रागादिमानयं वक्तृत्वादेवदत्तवदिति सन्दिग्धसाध्यधर्मा ॥ ३ ॥ ६३ ॥ मरणधर्मायं रागादिमत्वात् मैत्रवदिति सदिग्ध साधनधर्मा ॥५॥ ६४ ॥ नायं सर्वदर्शीरागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोमयधर्मा ॥ ६ ॥६५॥ रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः ॥७॥६६ ॥ अनित्यः शब्दः कृतकत्वात् घटवदित्यप्रदर्शितान्वयः॥८॥६७ ॥ Page #30 -------------------------------------------------------------------------- ________________ ... .. / . . . . . प्रमाणनयतत्त्वालोकालङ्कारः। अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ॥ ९॥ ६८॥ वैधय॑णापि दृष्टान्ताभासो नवधा ॥ ६९॥ असिद्धसाध्यव्यतिरेकोऽसिङसाधनव्यतिरेकोऽसिडोभयव्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥७॥ तेषु ज्रान्तमनुमानं प्रमाणत्वात् यत्पुनान्तं न भवति न तत् प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः ॥१॥७१ ॥ निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात्यत्तु सविकल्पं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥ २॥ ७ ॥ नित्यानित्यः शब्दः सत्वात् यस्तु न नित्यानित्यः सन संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकःस्तम्भान्नित्यानित्यस्य सत्वस्य चाव्यावृत्तेः॥३॥७३॥ Page #31 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वातू यः सर्वज्ञ आप्तो वा सक्षणिकैकान्तवादी यथासुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्यधर्म्मयो व्यावृत्तेः सन्देहात् ॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा शोद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्वस्य निवृत्तेः संशयात् ॥ ७५ ॥ ५ ॥ नवीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनष्पितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पित निजापीशितशकलस्तद्यथातपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः तपनबन्धौवीतरागत्वाभावस्य करुणास्पदेष्वपि परमकृपयानष्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् ॥ ६ ॥ ७६ ॥ न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वात् यः नर्वीतरागो न स वक्ता यथोपलखण्डइत्यव्यतिरेकः ॥ ७७ ॥ ७॥ ३१ Page #32 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शित व्यतिरेकः॥ ७८॥७॥ अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथा काशमिति विपरीतव्यतिरेकः ॥ ७९ ॥९॥ उक्तलक्षणाङ्कनेनोपनयनिगमनयोर्वचने तदाभासौ ॥ ८ ॥ यथा परिणामीशब्दः कृतकत्वात् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥ ८॥ तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्दइति तस्मात्परिणामी कुम्भ इति च ॥ ८२॥ अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥३॥ यथा मेकलकन्यकायाः कुले तालहिंतालयोर्मुलेसुलभाः पिण्मखर्जुराः सन्ति त्वरितं गच्छत २ शावकाः ॥ ८४॥ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्यानं तस्य संख्याभासम् ॥ ८५ ॥ Page #33 -------------------------------------------------------------------------- ________________ ३३ प्रमाणनयतत्त्वालोकालङ्कारः। सामान्यमेव, विशेषएव, तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥ ८६ ॥ अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ ८७॥ इति फलप्रमाणस्वरूपाद्याभासमिण सोनाम षष्ठः परिच्छेदः ।। .... नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्याशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥१॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः॥२॥ स व्याससमासाभ्यान्दिप्रकारः ॥३॥ व्यासतोऽनेकविकल्पः ॥ ४ ॥ समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च॥५॥ आयो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥ ६॥ धर्मयोधमिणोधर्मधमिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥७॥ Page #34 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । सच्चैतन्यमात्मनीतिधर्म्मयोः ॥ ८ ॥ वस्तुपर्यायवद् द्रव्यं इति धर्मिणोः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ||१०|| धर्मद्वयादीनामैकान्तिकपार्थक्यामिसन्धिगमाभासः ॥ ११ ॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥ १२ ॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३ ॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अशेषविशेषेष्वौदासीन्यम्भजमानः शुद्धद्रव्यं स न्मात्रमभिमन्यमानः परसंग्रहः ॥ १५ ॥ ३४ विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्त दाभासः ॥ १७ ॥ यथासत्तैव तत्त्वम् ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८ ॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु Page #35 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥१९॥ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥ २० ॥ द्रव्यत्वादिकं प्रतिजाना नस्तद्विशेषान्निवानस्तदानासः ॥ २१॥ यथा द्रव्यत्वमेव तत्त्वं, ततोर्थान्तरभूतानां द्रव्याणामनुपलब्धेः॥ २२ ॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनानिसन्धिना क्रियते स व्यवहारः ॥ २३ ॥ यथा यत्सत्तद् द्रव्यं पर्यायोवेत्यादि ॥ २४ ॥ यः पुनरपारमार्थिकद्रव्यपर्यायविनागमभिप्रैति स व्यवहाराभासः ॥ २५ ॥ यथा चार्वाकदर्शनम् ॥ २६ ॥ पर्यायार्थिकश्चतुर्की ऋजुसूत्रः, शब्दः, समभिरूढ एवंभूतश्च ॥ २७ ॥ ऋजु वर्तमानक्षणस्थाथि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय विशेष ऋजुसत्रः ॥ २८ ॥ Page #36 -------------------------------------------------------------------------- ________________ ३६ प्रमाणनयतत्त्वालोकालङ्कारः । यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ २९ ॥ सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ यथा तथागतमतम् ॥ ३१ ॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥ ३२ ॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः॥ ३३ ॥ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः॥३४॥ यथा बभूव जवति भविष्यति सुमेरुरित्यादयोभिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृकू सिद्धान्यशब्दवदित्यादिः ||३५|| पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समनिरूढः ॥ ३६ ॥ इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३७ ॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्त दाभासः ॥ ३८ ॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभि धेयाएव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥ ३९ ॥ Page #37 -------------------------------------------------------------------------- ________________ ३७ प्रमाणनयतत्त्वालोकालङ्कारः। शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥ ४० ॥ यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥ क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तुतदाभासः ॥ ४॥ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥ एतेषु चत्वारःप्रथमेऽर्थनिरूपणप्रवणत्वादर्थनया:४४ शेषास्तुत्रयःशब्दवाच्यार्थगोचरतया शब्दनयाः॥४५ पूर्वः पूर्वोनयः प्रचुरगोचरः, परः परस्तु परिमितविषयः ॥ ४६॥ सन्मात्रागोचरात्संग्रहान्नैगमो भावाभावमूमिकत्वाद् भूमविषयः॥४७॥ सद्विशेषप्रकाशकाद्वयवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वात् बहुविषयः ॥ ४८ ॥ Page #38 -------------------------------------------------------------------------- ________________ ३८ प्रमाणनयतत्त्वालोकालङ्कारः । वर्तमान विषयाहजुसूत्राद्वयवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥ ४९ ॥ कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुसुत्रस्तद्विपरीतवेदकत्वान्महार्थः ॥ ५० ॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ॥ ५१ ॥ प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्सम मिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः ॥५२॥ नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४ ॥ प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ॥ ५५॥ चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणःप्रतिक्षेत्रं भिन्नःपौगालिकादृष्टवांश्चायम्५६ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृस्नकर्मक्षयस्वरूपा सिद्धिः ।। ५७ ॥ इति श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्वालोकालङ्कारे नयात्मस्वरू पनिर्णयो नाम सप्तमः परिच्छेदः ॥ ७ ॥ Page #39 -------------------------------------------------------------------------- ________________ ..... ...... प्रमामनयतत्त्वालोकालङ्कारः। विरुद्वयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः ॥१॥ प्रारम्भकश्चात्र विजिगीषुः, तत्त्वनिर्णिनीषुश्च ॥२॥ स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः ॥३॥ तथैवं तत्त्वं प्रतितिष्ठापयिपुस्तत्त्वनिर्णिनीषुः ॥४॥ अयं च द्वेधा स्वात्मनि परत्र च ॥५॥ आयः शिष्यादिः ॥ ६॥ द्वितीयो गुर्वादिः ॥ ७॥ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥८॥ एतेन प्रत्यारम्भकोपि व्याख्यातः ॥ ९ ॥ तत्र प्रथमे प्रथमततीयतरीयाणां चतरङ्ग एवान्यतमस्याप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौः स्थ्यापत्तेः ॥१०॥ द्वितीये तृतीयस्य कदाचिद् द्वयङ्गः,कदाचिद् व्यङ्गः११ तत्रैव द्वयङ्गस्तुरीयस्य ॥ १२॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ तुरीये प्रथमादीनामेवम् ॥ १४ ॥ Page #40 -------------------------------------------------------------------------- ________________ wwwwww प्रमाणनयतत्त्वालोकालङ्कारः। वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि // 15 // प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ // 16 // प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म // 17 // वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थैरुभयाभिमताः सन्याः॥ ॥१८॥वादिप्रतिवादिनोर्यथायोगंवादस्थानककथाविशेषाङ्गीकारेणाग्रवादोत्तरवादनिर्देशः, साधकबाधकोक्तिगुणदोषावधारणम् , यथावसरन्तत्त्वप्रकाशनेन कथा विरमणम् ,यथासंनवं सभायां कथाफलकथनं चैषांकर्माणि // 19 // प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः॥२०॥ वादिसभ्याभिहितावधारणकलहव्यपोहादिकंचास्य कर्म // 21 // सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम॥ // 22 // उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णय यावत् स्फूर्ति च वाच्यम् // 23 // इति श्री देवाचार्यनिर्मिते प्रमाणनयतत्त्वालोकालङ्कारे वादिन्याय निर्णयोनामाष्टमः परिच्छेदः // 8 //