________________
प्रमाणनयतत्त्वालोकालङ्कारः ।
तथाहि नखल्वदृष्टमवगृह्यते नचानवगृहीतं सन्दिह्यते नचासन्दिग्धमीद्यते नचानीहितमवेयते नाप्यनवेतं धार्यते ॥ १७ ॥
क्वचित् क्रमस्यानुपलक्षणमेषमाशुत्पादादुत्पलपत्रशतव्यतिभेदक्रमवत् ॥ १८ ॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥ १९ ॥ तद्विकलं सकलं च ॥ २० ॥
भवगुण
तत्र विकलमवधिमनःपर्यायज्ञानरूपतयाद्वेधा ॥२१ अवधिज्ञानावरणविलयविशेषसमुद्भवं प्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥ २२ ॥ संयमविशुद्धिनिबन्धनाद्विशिष्टावरण विच्छेदाजातं
मनोद्रव्यपर्यायालम्बनं मनः पर्यायज्ञानम् ॥ २३ ॥ सकलंतुसामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ॥ २४ ॥ तद्वानईन्निर्दोषत्वात् ॥ २५ ॥
निर्दोषोसौ प्रमाणाविरोधिवाक्त्वात् ॥ २६ ॥ तदिष्टस्य प्रमाणेनाबाध्यमानत्वात् तद्वाच स्तेना विरोधसिद्धिः ॥ २७॥