________________
४ प्रमाणनयतत्त्वालोकालङ्कारः । एतद्वितयमवग्रहेहावायधारणाभेदादेकंशश्चतुर्वि. कल्पकम् ॥ ६॥ विषयविषयिसन्निपातान्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥ ७॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८॥ ईहितविशेषनिर्णयोऽवायः ॥ ९॥ सएवढतमावस्थापन्नोधारणा ॥ १०॥ संशयपूर्वकत्वादीहायाः संशया दः ॥ ११ ॥ कथञ्चिभेदेपिपरिणाम विशेषादेषां व्यपदेशनेदः ॥ १२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतया ऽनुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥ १३ ।। क्रमोप्यमीषामयमेव तथैवसंवेदनात् ॥१४॥ एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच॥१५॥ अन्यथाप्रमेयानवगतिप्रसङ्गः ॥ १६ ॥
१ 'एकैकश " इत्यपिपाठान्तरम् ।