________________
प्रमाणनयतत्त्वालोकालङ्कारः। कः खलुज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपितत्प्रकारं नाभिमन्यत मिहिरालोकवत्।। ॥१७॥ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम्॥१८॥ तदितरत्त्वप्रामाण्यम् ॥ १९ ॥ तदुभयमुत्पत्तौ परतएव ज्ञप्तौ तु स्वतः परतश्चेति ॥ २० ॥ श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्त्वालोकालङ्कारे प्रमाण स्वरूपनिर्णयो नाम प्रथमः
परिच्छेदः ॥ १॥
अथ द्वितीयः परिच्छेदः
तद्विभेदं प्रत्यक्षं च परोक्षं च ॥ १॥ स्पष्टं प्रत्यक्षम् ॥ २॥ अनुमानाद्याधिक्येन विशेष प्रकाशनं स्पष्टत्वम्॥३॥ तद्विप्रकारं सांव्यवहारिकं पारमार्थिकं च ॥४॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥ ५॥