________________
प्रमाणनयतत्त्वालोकालङ्कारः ।
२५
कर्त्ता हि साधकः, स्वतन्त्रत्वात्; क्रियातु, साध्या
कर्तृनिर्वत्यत्वात् ॥ १० ॥
न च क्रिया क्रियावतः सकाशाद जिन्नेव, निन्नेव वा; प्रतिनियतक्रियाक्रियावद्भावनङ्गप्रसङ्गात् ॥ २० ॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धि विरोधात् ॥ २१ ॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्त्तव्यः ॥ २२ ॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरुपाभासाः ||२४|| यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनविपर्यसंशयानध्यवसायाः ॥ २५ ॥ तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥ २६ ॥ सांव्यवहारिक प्रत्यक्षमिव यदाभासते तत्तदा
भासम् ॥ २७ ॥
यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानञ्च ॥