________________
...
..
/
.
.
.
.
.
प्रमाणनयतत्त्वालोकालङ्कारः। अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ॥ ९॥ ६८॥ वैधय॑णापि दृष्टान्ताभासो नवधा ॥ ६९॥ असिद्धसाध्यव्यतिरेकोऽसिङसाधनव्यतिरेकोऽसिडोभयव्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥७॥ तेषु ज्रान्तमनुमानं प्रमाणत्वात् यत्पुनान्तं न भवति न तत् प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः ॥१॥७१ ॥ निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात्यत्तु सविकल्पं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥ २॥ ७ ॥ नित्यानित्यः शब्दः सत्वात् यस्तु न नित्यानित्यः सन संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकःस्तम्भान्नित्यानित्यस्य सत्वस्य चाव्यावृत्तेः॥३॥७३॥