SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः । असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वातू यः सर्वज्ञ आप्तो वा सक्षणिकैकान्तवादी यथासुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्यधर्म्मयो व्यावृत्तेः सन्देहात् ॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा शोद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्वस्य निवृत्तेः संशयात् ॥ ७५ ॥ ५ ॥ नवीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनष्पितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पित निजापीशितशकलस्तद्यथातपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः तपनबन्धौवीतरागत्वाभावस्य करुणास्पदेष्वपि परमकृपयानष्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् ॥ ६ ॥ ७६ ॥ न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वात् यः नर्वीतरागो न स वक्ता यथोपलखण्डइत्यव्यतिरेकः ॥ ७७ ॥ ७॥ ३१
SR No.022482
Book TitlePramannay Tattvalkalankar
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy