________________
॥श्री-----
श्रीयादिदेवमुरिविरचित प्रमाणनयतत्त्वालोकालङ्कारः।
-
प्रथमः परिच्छेदः । रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः। शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥१॥ प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥ स्वपरव्यपसायिज्ञानं प्रमाणम् ॥ २॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणमतोज्ञानमेवेदम् ॥३॥ नवै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नंतस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥ ४॥ नखल्वस्य स्वनिर्णीतौ करणत्वं स्तंभादेरिवाचेतन