________________
प्रमाणनयतत्त्वालोकालङ्कारः।
गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥१९॥ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥ २० ॥ द्रव्यत्वादिकं प्रतिजाना नस्तद्विशेषान्निवानस्तदानासः ॥ २१॥ यथा द्रव्यत्वमेव तत्त्वं, ततोर्थान्तरभूतानां द्रव्याणामनुपलब्धेः॥ २२ ॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनानिसन्धिना क्रियते स व्यवहारः ॥ २३ ॥ यथा यत्सत्तद् द्रव्यं पर्यायोवेत्यादि ॥ २४ ॥ यः पुनरपारमार्थिकद्रव्यपर्यायविनागमभिप्रैति स व्यवहाराभासः ॥ २५ ॥ यथा चार्वाकदर्शनम् ॥ २६ ॥ पर्यायार्थिकश्चतुर्की ऋजुसूत्रः, शब्दः, समभिरूढ एवंभूतश्च ॥ २७ ॥ ऋजु वर्तमानक्षणस्थाथि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय विशेष ऋजुसत्रः ॥ २८ ॥