________________
प्रमामनयतत्त्वालोकालङ्कारः । नास्त्येव सर्वथैकान्तोनेकान्तस्योपलम्भात्॥८॥ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥८५॥ विरुद्वव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्रसन्देहात् ॥ ८६ ॥ विरुद्वकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधायुप. शान्तिर्वदनविकारादेः ॥ ८७ ॥ विरुद्वकारणोपलब्धिर्यथा नास्य महर्षेरसत्यवचः समस्तिरागद्वेषकानुष्याकलङ्कितज्ञानसंपन्नत्वात् ८८ विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहुर्तान्ते पुष्यतारा रोहिण्युद्गमात् ॥ ८९ ॥ विरुद्धोत्तरचरोपलब्धियथा नोदगान् मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयात् ॥ ९० ॥ विरुद्वसहचरोपलब्धियथा नास्त्यस्य मिथ्या ज्ञानं सम्यग्दर्शनात् ॥ ९१ ॥ अनुपलब्धेरपिद्वैरूप्यमविरुझानुपलब्धिर्विरुझानुपलब्धिश्च ॥ ९२॥ तत्राविरुद्वानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा९३