Book Title: Pramannay Tattvalkalankar
Author(s): 
Publisher: Unknown

View full book text
Previous | Next

Page 37
________________ ३७ प्रमाणनयतत्त्वालोकालङ्कारः। शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥ ४० ॥ यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥ क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तुतदाभासः ॥ ४॥ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥ एतेषु चत्वारःप्रथमेऽर्थनिरूपणप्रवणत्वादर्थनया:४४ शेषास्तुत्रयःशब्दवाच्यार्थगोचरतया शब्दनयाः॥४५ पूर्वः पूर्वोनयः प्रचुरगोचरः, परः परस्तु परिमितविषयः ॥ ४६॥ सन्मात्रागोचरात्संग्रहान्नैगमो भावाभावमूमिकत्वाद् भूमविषयः॥४७॥ सद्विशेषप्रकाशकाद्वयवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वात् बहुविषयः ॥ ४८ ॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40